________________
॥१९॥ निरंतरं पुखितबाणचाप-धरः स पापर्घिकृतेऽपशंकं ।। भ्राम्यन् वने दूरगताणुमात्र-लक्ष्यप्रभेदप्रवणोऽतिपापः ॥१००||
प्रकाशिपद्यांकमथांहिपा । वृक्षांतरे सुप्तजनार्दनस्य ।। दृष्ट्वा मृगभ्रांतितयाक्षिपद् द्रामाराचमुच्चैर्यमदूतरूपं ॥१॥ पतत्रिणा तेन हरिस्तु मर्म-स्थाने प्रविद्धः किल पादपद्ये ॥ तस्य प्रहारार्दितमानसोऽवग् । भूत्वा निषण्ण: परिशुष्कतालु ॥२॥ भो: केन विद्धोऽस्मि शरेण गात्रे । स्वां वा प्रकाश्यामितवैरतां च ॥ न क्षत्रिया: सुमनरे प्रहारं । कुर्वति वैरिप्रबलेऽपि येन ॥३॥ श्रुत्वेत्यवादीदतिखिन्नचेता: । पुमानथाघाति मयेह कश्चित् ॥ यदूत्तमश्रीवसुदेवपुत्रो । जराकुमारोऽस्मि विमुक्तसौधः ॥४॥ श्रीनेमिनाहं कथितो मुकुंद-विघातकारी
करुणाहृदेन ॥ तत: परित्राणकृतेऽच्युतस्या-त्राहं स्थितो द्वारवर्ती विमुच्य ॥५॥ ममाभवन् द्वादशवत्सराणि । पापर्द्धिपापैकरतस्य चात्र ॥ * अद्याहमद्राक्षमहो मनुष्यं । कस्त्वं पुमान् भोः कथयातिशीघ्रं ॥६॥ श्रुत्वेत्यवादीद्धरिरस्मि सैष । तवानुजोऽहं किल कृष्णनामा ॥
स्व:सन्निभां द्वारवती विमुच्य । यत्राणहेतोर्निवसन् वनेऽसि ॥७॥ सप्तोऽहमत्रैव वटगुमस्या-धस्तात्प्रविद्धस्तव मार्गणेन || आकर्ण्य तद्व्याकुलमानसोऽत्र । जराकुमारस्त्वरितं समागात् ॥८॥ विद्धं पुरः प्रेक्ष्य मुकुंदमेव । जराकुमार: सहसा मुमूर्छ ॥ क्षणांतरेऽथ स्वयमेव नष्ट-मूर्छाऽतिदुःखाद्विललाप बाढं ॥९॥ प्रत्यच्युतं प्राह स गद्गदं भो। दग्धा पुरी द्वारवती किमेषा ॥ द्वैपायनेनाखिलयादवानां । वंशो विदग्धः किमु नेमिदिष्टः ॥१०॥ भ्रात: कथं ते भरतार्थराज्य-श्रीर्भो विनष्टाद्य हहा शुभाढ्या ॥ भृशं व्यथार्तोऽपि हरिर्जगाद ।
॥
५
॥