________________
बलभद्रचरित्रं॥
स दंतकं ॥ नराधिपं पांडुसुतं व्यजिज्ञपन् । स्वारक्षका व्याकुलमानसा ध्रुवं ॥८७॥ कश्चिन्नरः संप्रति दिव्यरूपः । समेत्य पुर्यां बहुमूल्यतोऽपि ।
॥ द्रुतं समादाय सुरां च भोज्यं । संभाव्यतेऽसौ चलितः क्षितीश ॥८८॥ शीघ्रं ततो बोधयितुं भवंत-मत्रागता नोऽत्र न चास्ति । दोषः ॥ श्रुत्वेति सैन्येन युतोऽच्छदंत-भूपः क्रुधा दापितगोपुरश्च ॥८९॥ समुत्थितः श्रीबलदेवमेनं । हंतुं नरेद्रः स हली ततो द्राग्न ॥ वेडां विधायेभविपक्षवच्च । प्रौढं करिस्तंभमथो विकृष्य ॥१०॥ श्वेडां निशम्य त्वरितं समेत्यो-त्फाल: पदाघातभरैर्बभंज ॥ .
महत्कपाटद्वितयं प्रतोल्या । हरिर्बलीयान् हरितुल्यवीर्यः ॥९१॥ बद्ध्वाच्छदंतं नृपतिं स सद्यः । प्राहाथ रे दोर्बलमस्मदीयं ॥ किंER Ba द्वारिकाया दहनेऽथ दग्धं । ज्ञातं त्वया मूर्ख मुमूर्षुणा धिग् ॥९२॥ कथं वराकं किल हन्म्यहं त्वा-मेवं गदित्वा व्यमुचन्नृपं तं । BA ॥ चतुर्भुजस्तन्मधुपानपूर्वं । भुनक्ति भोज्यं बलभद्रयुक्तः ॥९३॥ भुक्त्वा ततस्तौ प्रवरौ ह्यपाच्यां । नाम्नाथ कोशांबमरण्यमेतौ ॥ - संप्रापतुः पूर्वनिबद्धकर्मोदयेन दुष्टामितजंतुपूर्ण ॥९४॥ तस्मिन् वने संचरतोऽच्युतस्य । मद्यस्य पानाल्लवणाशनेन ॥ मार्गश्रमाच्चोग्रत
रातपाच्च । प्राग्जन्मपुण्यप्रचयक्षयाच्च ॥१५॥ लग्ना भृशं तृड् वचनातिगा सा । गंतुं ययालं पदमात्रमेषः ॥ नाभून्मुकुंदस्तत आह बंधो । पिपासया शुष्यति तालु मे हि ॥९६॥ प्रेम्णातितीव्रण विशालबुद्धि-र्बलोऽब्रवीदेवमयो मुकुंद ॥ त्वमप्रमत्तस्त्विह वृक्षमूले । । विश्राम्य नीरं च यथानयेऽहं ॥१७॥ ततोऽच्युतः सांद्रवद्रुमाधः । सुप्तः स्ववस्त्रावृतवक्त्र एषः ॥ कृतस्वजानूपरिपादपद्मः । संप्राप से निद्रां घनमार्गखिन्नः ॥९८॥ तदा गते दूरतरं जलार्थं । बले बलिष्टे तदरण्यवासी ॥ जराकुमारो विधियोगतो हि । व्याघ्रत्वचालंकृतगात्रयष्टिः