________________
दह्यमानामिमां निजपुरीं बलभूर्विलोक्य ॥ स्थित्वाथ सौधशिखरोपरि वह्निभीतः । प्राहेति नेमिजिनपस्य यदस्मि शिष्यः ॥ ७६ ॥ आदिष्ट एवास्मि जिनेन पूर्वमहं सुरा भो चरमांमधारी ॥ ज्वलामि तत्किं शिखिनेति जल्पन् । श्रीकुब्जवारः कुमाराग्रणी : सः ॥७७॥ सद्यः समुत्पाट्य च जृंभकाख्य- सुरैर्विमुक्तो जिननेमिपार्श्वे ॥ नूनं यतस्तद्भवसिद्धिकाना - मेवंविधानर्थघटा कथं स्यात् ॥७८॥ दूरस्थिते पल्हविनामदेशे । नेमिस्तदानीं व्यहरजिनेन्द्रः ॥ लात्वा तपस्यां खलु तस्य पार्श्वे । कृत्वा तपो घोरमगात्स मुक्तिं ॥७९॥ सहस्रशः केशवरामभार्या । अन्येऽपि संतो यदवो ह्यनेके ॥ घोरातिघोरानलसंकटेऽत्र । त्यक्ताशना भव्यगतिं च भेजुः ॥८०॥ केचिद्जना दुस्सहवह्निदग्धाः । संजातसद्यः सद्भावयुक्ताः ॥ प्रायों बभूवुस्त्रिदशास्तदैव । सुव्यंतराः स्वल्पतरानुभावाः ॥८१॥ अज्वालयत्तां नगरीं सुरः षण्मासीं ततो वारिनिधिः समंतात् ॥ लोलद्जालैः प्लावयति स्म दत्त-संकेतवत्सत्वरमेव धिग्धिग् ॥८२॥ पुरः पुरः कृष्णबलौ प्रयांतौ । श्रीहस्तिकल्पं पुरमागतौ सौ ॥ जगाद विष्णुर्बलदेवबंधो । क्षुधातिबाधां दधते ममालं ॥८३॥ रामोऽवदोस्त्वमिहाप्रमत्तस्तिष्ठेरथास्मिन्नगरे व्रजामि ॥ हरिस्त्ववादीत्तव जायमान - मुपद्रवं कः कथयिष्यतीह ॥८४॥ रामोऽब्रवीत्तत्र तथैव सिंह- नादं करिष्यामि च दानवारे ॥ भविष्यति क्षिप्रमथावबोध - स्तदात्र कार्या भवता गतिर्द्राग् ॥८५॥ संकेतमेवं त्वरितं विधाय । रामं विशंतं नगरे सुरूपं ॥ दृष्ट्वा जनः प्राह मिथोऽथ रामः । किं निर्गतो द्वारवतीप्रदाहात् ॥ ८५ ॥ चित्ते विकल्पानिति पूर्जनेऽखिले । प्रकुर्वति श्रीबलदेवनायकः ॥ प्राज्यं रसैर्भोज्यमथो समद्यकं । ललौ स्वमुद्राव्ययतोऽशनाय द्राग् ॥८६॥ क्रीत्वाथ यावत्पुरगोपुरांतिकं । संप्राप्तवानेष तदाच्छ
॥ ४ ॥