________________
भृशं जनांधीकरणप्रवीणः । ससार तूर्णं दशदिक्षु धूमः ॥ गजाश्वगोमुख्यपशु व्रजाश्च । ज्वलंति नार्यः पुरुषाश्च बाला: ||५४|| हा कृष्ण हा राम कृशानुनार्त्ता-न्नः पाहि नः पाहि सुदीनचित्तान् ॥ इत्युच्त्रितो द्राग् पुरि भूरिघोरा-क्रंदध्वनिः कर्णकटुः प्रकामं ॥५५॥ दिव्यैः सुमंत्रमणिभिर्निजपुण्यहान्या । यावद्धरिः शमयितुं व्रजतीह वह्निं ॥ तावत्सुदर्शनगदादद्भुतचापरत्ना - दीन्याशु सीरमुशलप्रमुखानि नेशुः ॥ ५६ ॥ श्रीदेवकीरोहिणीमातयुक्तं । श्रीरामकृष्णौ वसुदेवमाशु ॥ रथं समारोहयतां स्वपुर्याः । क्रष्टुं बहिर्निर्भरपितृभक्तौ ॥५७॥ नावौ तदा संचलतोऽथ धुर्यौ । प्रदह्यमानौ ज्वलनेन कामं ॥ भक्त्या स्वपित्रोः स्वयमग्रतस्तौ । गत्वा समाकर्षत एव तं च ॥५८॥ यावन्निजं प्रौढतरालयस्य । द्वारं गतौ तौ मिलते कपाटे ॥ बलेन भग्नं बहिरेव गंतुं । पुनस्तदैते मिलिते क्षणेन ॥५९॥ द्वैपायनोऽथाह नभोगणस्थो । रौद्राकृति भोः सुवीरौ ॥ स्वं पौरुषं व्यर्थतरं किमेतत् । प्रारब्धमुच्चैर्वपनं यथाग्नौ ॥६०॥ युवांविना नात्र हि बालवृद्धा - दिकस्य मोक्षो भवितापि कस्य ॥ मयैतदर्थं व्ययितं समस्तं । तपश्च पूर्वं किल मूढभावात् ॥ ६१ ॥ तथाहुरेतौ पितरौ युवां तु
। भो यातमस्मात्पदतः क्वचित्तु ॥ प्राणान् दधद्भ्यामधुना युवाभ्यां । वर्धिष्यते स्व: पुनरेव वंश: सुतरां भवद्भ्यां । शक्तिः स्वकीया प्रकटीकृतालं ॥ दुष्कर्मणां पूर्वभवार्जितानां । विपाकतो नो श्रीनेमिपार्श्वे यदि नो तपस्या - स्माभिर्गृहीता निजसत्वहीनैः ॥ कथं तदेयं भववासवर्ति - विडंबना
॥६२॥ भक्त्या स्वपित्रोः विफला बभूव ॥ ६३ ॥ सुलभानं हि स्यात्
॥ ३ ॥