________________
बलभद्रचरित्रं ॥
वह्निकुमारमध्ये ॥ स प्राच्यरोषान्नगरीविनाश-कृते तं तत्र समागतोऽभूत् ॥४३॥ धर्माधिकध्यानविधानदक्षान् । समग्रलोकानपकर्तुमुच्चैः ॥ शशाक नैष स्खलितो यथाद्रौ । व्याघ्रो ध्रुवं दुष्टतराशयोऽपि ॥४४॥ भयेन केचिन्मनुजाः स्वभावा-द्विशुद्धधर्मं खलु चक्रुरुच्चैः ॥ पुनः पुनः सोऽपि सुरः समेत्य । प्रत्येत्यसामर्थ्यतया विरोधी ॥ ४५ ॥ एवं पुरि द्वादश वत्सराणि । `दुःकर्मविपाकयोगात् ॥ दध्यौ जनो भग्नमना वराक: । सुरः स भावी प्रगतः क्व चापि ॥ ४६॥ धर्मे ततो मंदतरस्वभावो ऽभवत्प्रमादी सकलोऽपि लोकः ॥ छलावलोकी स ततः सुपर्वा । चिरेण लेभेऽवसरं दुरात्मा ॥४७॥ दिग्दाहभूमीतलकंपधूलिवृष्ट्यादिका भीतिकरा नराणां ॥ जातास्तदानीं सहसैव दिव्यो- त्पाताः प्रभूताः कलहो मिथश्च ॥४८॥ संवर्तकात्युग्रसमीरमाशु । ततो विचक्रे तृणकाष्टकादि ॥ प्रक्षिप्य पुर्यां बहुकोपतोऽसौ । हुताशनं चालयन्निकामं ॥ ४९ ॥ अन्येषु देशेषु गताननेकान् । लोकान् समग्रांस्त्रिदशस्ततोऽसौ ॥ अपातयत्तेन समीरणेन । प्रणश्यतश्चाशु पुरीविमध्ये ॥ ५०॥ लोको भृशं व्याकुलमानसोऽसौ । लग्नः कृशानोः शमनाय तस्य ॥ जलैरनल्पैर्न च शाम्यतीह । नवो नवः किंतु विवर्धतेऽसौ ॥ ५१ ॥ त्रिभूमिकानि ज्वलितुं च सप्त-भूमान लग्नानि महागृहाणि ॥ शिलाः प्रकामं स्फुटितुं ह्यनेकाः । श्रृंगाणि सद्यस्स्रुटितुं च तस्यां ॥५२॥ ज्वलंति मुक्तामणिचंदनानि । दिव्यांबराणि प्रतिपण्यशालं ॥ कर्पूरपूरागुरुमुख्यपण्या-न्यनेकशस्तत्र तथा ज्वलंति ॥५३॥