SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ EX हि प्रतिपन्न एव ॥ विना युवां कंचन नैव मोक्ष्ये । तदत्र भो भो बहुधा न वाच्यं ॥३१॥ अथाच्युतः श्रीबलयुग्नगर्या-मवादयद् इस द्राग्पटहं स्वभृत्यैः ॥ द्वैपायनेनातिरुषा प्रपन्नो । भो भो जनाः पू.प्रलयोऽधुनेति ॥३२॥ ततो भवंतः परमेष्ठिमंत्र-ध्यानैकचित्ता: • सततं भवंतु ॥ त्रिकालमेवार्हत्पूजनैक-परा विहारेषु गृहेषु संतु ॥३३॥ तपस्सु षष्टादिषु दुःकरेषु । तीव्रेषु नानानियमेषु चैव ॥ सद्योद्यता: स्युर्व्यसनातिवैर-विलासनिद्राविकथादिमुक्ताः ॥३४|| आबालवृद्धं सकला: पुरीजनाः । कुर्वतु सम्यग् जिनधर्ममादरात्र ॥ पुण्यप्रभादतुलादसावरि-हंतुं प्रभुः स्यान्न हि मंत्पुरी यथा ॥३५|| दिनं तदारभ्य समग्रलोकः । श्रीकेशवादेशमवाप्य सम्यग् पनि ॥ जिनेद्रपूजापरमेष्ठिमंत्र-ध्यानादिधर्मं कुरुते स्म लोकः ॥३६॥ श्रीरैवताद्रौ विहरनरिष्ट-नेमिर्जिनेद्रः पुनराजगाम ॥ श्रीकृष्णमुख्या: सपरिच्छदास्तं । जग्मुर्विनंतुं मुदिताशया द्राग् ॥३७॥ संध्याभ्ररागगजकर्णकुशाग्रबिंदु-कल्लोलवासवधनुस्तरलं समग्र ॥ सांसारिकं । द्रविणयौवनराज्यमुख्यं । नेमिस्तदा त्रिजगतीविभुराह वस्तु ॥३८॥ प्रद्युम्नशांबनिषधोद्भटसारणाख्या। व्याख्या विभोर्यदुकुमारवरास्तदानीं । ॥ श्रुत्वाथ केशवबलानुमतिं च लब्ध्वा । दीक्षां ललुर्भवनिवासविलासखिन्नाः ॥३९॥ रुक्मिण्यपि श्रीपतिमाह सद्यो । व्रतार्थमेवं विसृज प्रभो मां ॥ येनाधुनैव प्रभुनेमिपार्श्वे । मोक्षाय दीक्षामुररीकरोमि ॥४०॥ कृच्छ्रेण कामं गलदश्रुपूर्ण-नेत्रस्य कृष्णस्य वरामनुज्ञां ॥ लब्ध्वान्यराज्ञीभिरहो ललौ सा । व्रतं भवांभोनिधियानपात्रं ॥४१॥ अन्यत्र देशे विजहार नेमि-हरिस्ततोऽघोषयदेवमत्र ॥ भो भो जनाः सर्वबलेन धर्मे । यत्नो विधेयः स्वहिताय शश्वत् ॥४२॥ द्वैपायनर्षिस्त्रिदशोऽथ मृत्वा । जज्ञे महान्
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy