________________
बलभद्रचरित्रं ॥
गाननृत्यादिपरायणाः किल ॥२०॥ द्वैपायनं तापसमग्रतोऽमी । दृष्ट्वा तपस्यंतमतिप्रशांतं ॥ प्रधाविता निष्ठरभाषिणो द्राग् । वैतालबाला इव दुर्निवारा: ॥२१॥ अस्मत्पुरीध्वंसमरे करिष्यसि । त्वं तापसाभास विमूढमानस ॥ त्वां पापमद्येव वयं सुनिष्ठुरं । हन्म: किलेति प्रलपंत उच्चकैः ॥२२॥ अकुट्टयंस्तं विविधप्रहारैस्ते यष्टिमुष्टिमुखैरनेकैः ॥ नानर्थमेष्यंतमहो नरा यतो । मद्यादिसक्ता गणयंति कंचित् ॥२३॥ निरागसं रे कुधियः कथं मां । तपस्विनं कुट्टयथ प्रकामं ॥ तपो मदीयं यदि भोः प्रमाणं । तदा पुरीदाहकरो भवेयं ॥२४॥ निदानमेवं कृतवंतमेनं । कृत्वा मृतप्रायमथो मुनीशं ॥ पुरीं समागु: कुमारा द्रुतं ते । श्रुतं च तद्रामजनार्दनाभ्यां ॥२५॥ अत्याकुलौ श्रीबलकेशवौ तौ । तमागतौ सांत्वयितुं च लग्नौ ॥ द्वैपायनं तापसमुख्यमेवं । सुधामुधाकारिवच:प्रपंचैः ॥२६॥ उच्छंखलैनः कुमरैः कुधीभि-स्त्वमर्चनीयः प्रहतः प्रकामं ॥ सद्यः सदैवोग्रतपोबुराशे । तदेकवारं च मुने क्षमस्व ॥२७॥ स शाम्यमानोऽप्यमुचन्न कोपं । पूर्वं सुतीव्र बलकेशवाभ्यां ॥ तत्काललग्नः किल दाववह्निः । केनापि विध्यापयितुं न शक्यः ॥२८॥ कथंचनानुग्रहमेष नैव । करोति शापस्य यदातिरुष्टः ॥ तदा गदापाणिमुवाच रामः । स्वभावगंभीरगुणाभिरामः ॥२९॥ जनार्दनालं विफलेन तेऽमुना । नूनं प्रयत्नेन कृतेन बांधव ॥ विचारय त्वं जिनराजभाषितं । वृथा भवेत्किं भुवने कदाचन ॥३०॥ द्वैपायनोऽप्याह पुरा विनाश: । क्रुधा मया