SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विद्या न च भेषजं न च पिता नो बांधवा नो सुता । नाभीष्टा कुलदेवता न जननी स्नेहानुबंधान्विता ॥ नार्थो न TE र स्वजनो न वा परिजन: शारीरिकं नो बलं। नो शक्रा: सततं सुरासुरवरा: संधातुमायुः क्षमाः॥१॥ सदा सदाचारपरायणात्मनां । विवेकधाराशतधौतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥२॥ त्यक्त्वा TH पुत्रधनादिमोहममतां कृत्वांतिमालोचना-मुच्चार्य व्रतमालिकामनशनं चादाय वीतस्पृहः। सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां । धन्य: पंचनमस्कृतिस्मृतिपरः कोऽपि त्यजेत् स्वं वपुः ॥३॥ जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥४॥ एवं निजहृदि विचारयन् सोऽवंतीसुकुमालो मुनिः शुभध्यानात्तं मनुष्यदेहं है। त्यक्त्वा तदानीमेव पुनर्देवलोके नलिनीगुल्मविमाने समुत्पन्न:. अथ प्रातस्तस्य मातापितरौ प्रियाश्च तमवंतीसुकुमालमद्दष्ट्वा र भृशं शोकातुरा बभूवुः, नानाविधविलापांश्च चक्रुः. तदा श्रीआर्यसुहस्तिगुरवस्तान् सर्वानप्याश्वास्य तस्यावंतीसुकुमालस्य सर्वमपि निशावृत्तान्तं जगुः, तदनंतरं च तेभ्य: प्रोक्तं अथ यूयं शोकं मा कुरुत स महापुण्यशाली अवंतीसुकुमालो निजदेहं परित्यज्य नलिनीगुल्मविमाने समुत्पन्नोऽस्ति, तत्र च देवांगनाभिः सह नानाविधविषयसुखानि भुंजानोऽस्ति. तद्वृत्तान्तं श्रुत्वा तस्य मातापितरौ स्त्रियश्चातीवखेदं प्राप्ता मोहेन भृशं विलापान् कुर्वति स्म, यतो जगति मोहत्यागकरणं ISTKATTATRIKESTATISTICKSKCKSTOTKE ॥ ४ ॥
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy