________________
अवंती० चरित्रम्
रमंति मूढा विरमंति पंडिताः ॥१ ॥ इदं शरीरं परिणामदुर्बलं । पतत्यवश्यं लथसंधिजर्जरं ॥ किमौषधैः क्लिश्यति मूढ दुर्मते । निरामयं धर्मरसायनं पिब ॥२॥ कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो । धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि ॥ पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥३॥ जन्मेदं न चिराय भूरिभयदा लक्ष्म्योऽपि चैव स्थिराः । किंपाकांतफला नितांतकटवः कामाः क्षणध्वंसिनः ॥ आयुः शारदमेघचंचलतरं ज्ञात्वा तथा यौवनं । हे लोका: ! कुरुतादरं प्रतिदिनं धर्मेऽघविध्वंसिनि ॥४॥ इत्यादिशरीरासारतां चिंतयन् स कायोत्सर्गेण स्थितः इतस्तस्यावंतीसुकुमालस्य पूर्वभवसंबंधिनी प्रिया पूर्वमपमानीता मृत्वा शृगाली जाताभूत्. सा क्षुधातुरा शृगाली निजापत्यगणयुता दैवयोगेन रात्रौ तत्र श्मशाने समागता तत्र निजपूर्वभवस्वामिनं स्वीयापमानकरं तमवंतीसुकुमालं कायोत्सर्गस्थितं दृष्ट्वा समुल्लसितस्वाभाविकवैरानुभावा सा शृगाली क्रोधातुरा निजापत्यै: सह तदीयशरीरं खंडखंडं त्रोटयामास. अवश्यं भाविनो भावान्निवारयितुं न कोऽपि समर्थ:, यतः - पातालमाविशतु यातु सुरेंद्रलोक-मारोहतु क्षितिधराधिपतिं सुमेरुं ॥ मंत्रौषधैः प्रहरणैश्च करोतु रक्षां । यद्भावि तद्भवति नात्र विचारहेतुः ॥१॥ अथैवं शृगाल्या विदार्यमाणशरीरोऽवंती सुकुमालस्तस्यै मनागपि निजमनसा क्रोधं न चकार. प्रत्युत निजहृदये इति विचारयामास - नो
CIKI