________________
1
अथ तद्विमानसुखस्मरणादहमत्र मनुष्यलोके स्थातुं नेच्छामि, अर्थतां मदीयललनात्रेणिमहं राक्षसीतुल्यां मन्ये, अतस्ताभ्योऽहं विरक्तो जातोऽस्मि, यत:-दुरितक्मषनाली शोककासारपाली । भवकमलमराली पापतोयप्रणाली ॥ विकटकपटपेटी मोहभूपालचेटी । विषयविषभुजंगी दुःखसारा कृशांगी ॥२॥ स्मितेन भावेन मदेन लज्जया । पराङ्मुखैरर्धकटाक्षवीक्षितैः ॥ वचोमियाकलहेन लीलया । समंतपाशं खलु बंधनं स्त्रियः ॥२॥ संमोहयति मदयंति विडंबयंति । निर्भर्त्सयंति रमयंति विषादयंति ॥ एताः प्रविश्य सदयं हृदयं नराणां । किं नाम वामनयना न समारंति ॥३॥ पापागारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला। ववंचर्ममयं विगंधि कलुषं मांसोत्करामौ स्तनौ ॥जंघाद्यस्थिविभूषितं च सकलं यस्या विरूपं सदा । पश्यन्नप्ययमातनोति हृदये रागी कथं संमदं ला ततो हे भगवन् ! मह्यं कृपां विधाय दीक्षां यच्छत, येन मदीयं जन्म कृतार्थ करोमि. तत् श्रुत्वा गुरुभिरुक्तं, भो महाभाग ! तव मातृपितृबंधुप्रभृतीनांमनुज्ञां विनास्माभिस्ते दीक्षां दातुं न शक्यते. तत् श्रुत्वा तद्विमानगमनोत्सुकीभूतेन तेनावंतीसुकुमालेन स्वयमेव तत्कालं दीक्षा गृहीता. ततः सोऽवंतीसुकुमालो वनमध्ये श्मशाने गत्वा कायोत्सर्गध्यानस्थस्तस्थौ, निजहृदये मनुष्यशरीरासारतां च चिंतयामास, यथा- अमेष्यपूर्णे कृमिजालसंकुले । स्वभावदुर्गंध-अशौच अध्रुवे ॥ कलेवरे मूत्रपुरीषभाजने। .
HERRORRENTIATRRERENERARATHBATMIEREEEENA