________________
गमनोत्सुको जातः, निजमनसि च स एवं मन्यते स्म, यथा-दारा: पराभवकारा । बंधुजनो बंधनं विषं विषयाः ॥ अवंती० चरित्रम्
र कोऽयं जनस्य मोहो । ये रिपवस्तेषु सुहृदाशा: ॥१॥ त्यक्तेऽपि वित्ते दमितेऽपि चिते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे ॥
दुःखैकगेहे विदिते च देहे । तथापि मोहस्तरुणप्ररोहः ॥२॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । रे
जानामींद्रियवर्गमेतमखिलं स्वार्थैकनिष्टं सदा । जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि में क:पुनरसौ मोहस्य हेतुर्मम ॥३॥ एवमिह भवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सोऽवंतीसुकुमालो है
निजप्रासादात्तत्कालमुत्तीर्य श्रीआर्यसुहस्तिगुरोः पार्श्वे समाययौ. तत्र भक्तिपूर्वकं गुरून्नमस्कृत्य स पप्रच्छ, हे भगवन् ! र यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाता: ? येन श्रीपूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति. तत् श्रुत्वा है।
गुरुभिः प्रोक्तं, भो महाभाग ! वयमधुना तत्र विमाने न गताः स्म: इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नास्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठं वयमधुना गुणयाम: किंच तस्मिन् विमाने ये देवाः समुत्पद्यन्ते, है तेऽतीवसुखानि विलसंति. तत् श्रुत्वा सोऽवंतीसुकुमालो गुरून् प्रति जगौ, हे भगवन् ! जातिस्मरणज्ञानतोऽहं जानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं, आयु:क्षये च ततश्च्युत्वाहमत्र मनुष्यलोके समुत्पन्नोऽस्मि.