________________
भो श्राविकोत्तमे ! यथावसरं विलोकयिष्यामः. ततः स भद्रः श्रेष्ठी स्वपरिवारयुतो गुरुभ्यो वंदनं विधाय नगरमध्ये र र निजगृहे समाययौ. अथ कियद्दिनानंतरं ते श्रीआर्यसुहस्तिसूरयोऽपि तस्या भद्राश्रेष्ठिन्या विज्ञप्त्या पुरोमध्ये समेत्य ।
परिवारयुतास्तस्या एव गृहनिकटे उपाश्रयमध्ये चतुर्मासी स्थिता:. अथान्येयु: प्रदोषसमये प्रतिक्रमणक्रियानंतर ते श्रीसूरिवरा मधुरया गिराऽऽदरपूर्वकं श्रीनलिनीगुल्माध्ययनपाठं गुणयंति स्म, तदा भद्रात्मजः सोऽवंतीसुकुमालो निजालये द्वात्रिंशल्ललनाभिः समं विविधप्रकारान् विलासभोगान् भुंजान उन्निद्रो गुरुवरैर्गुण्यमानं तन्नलिनीगुल्माध्ययनपाठमशृणोत्. तत् श्रुत्वा स लघुकर्मा निजचेतसीति दध्यौ, किमिदं गुरुभिः पठ्यमानवर्णनं नलिनीगुल्मविमानं मया क्वापि विलोकितमस्ति है। ? एवं पुन: पुनरुहापोहपर: सोऽवंतीसुकुमालो जातिस्मरणज्ञानमवाप्तवान्. तेन ज्ञानेन च तेनेति ज्ञातं, यत्पूर्वस्मिन् भवेऽहं । नलिनीगुल्मविमाने देवोऽभवं, तत्र विमाने च मया यानि सुखानि विलसितानि, तेषां सुखानामग्रे मयेह भुज्यमानमिदं । सुखं न किंचिदपि. तत्सुखैतत्सुखयोर्मेरुसर्षपयोरिवांतरं विद्यते. यत:-देवाणं देवलोए। जं सोक्खं तं नरो सुभणिओवि ॥
न भणइ वाससएणवि । जस्सवि जीहासयं हुजं ॥१॥ इति विमृश्य सोऽवंतीसुकुमालो र नलिनीगुल्मविमानसुखलाभोत्सुकस्तासां विलासवतीनामपि निजस्त्रीणां भोगविलासांस्तृणवत्त्यक्त्वा विरक्तीभूय गुरुपार्श्वे
RESTSETTESEXKAKKAKAKKA