________________
अवंती० चरित्रम्
1
प्रभाते रविदीपकः। त्रैलोक्यदीपको धर्मः । सुपुत्रः कुलदीपकः ॥२॥ एवं हृष्टाभ्यां मातापितृभ्यां तस्य बालस्यावंतीसुकुमाल इति नाम महोत्सवपूर्वकं विहितं. अथ स भद्राभिधः श्रेष्ठी तं बालं पाठशालायां कलाभ्यासार्थं कलाचार्यपार्श्वे प्रेषयामास. तत्र सोऽवंतीसुकुमालोऽपि सकलकलाभ्यासनिपुणो बभूव, ततः स भद्रश्रेष्ठ्यपि तं श्रीआर्यसुहस्तिनमाचार्यवरमुद्याने समेतं निशम्य तेषां वंदनार्थं परिवारयुतो ययौ तत्र तेन सपरिवारेण विधिपूर्वकं ते सूरिवरा वंदिताः, सूरिभिरपि तेभ्यो धर्मोपदेशो दत्तः, यथा-विलंबो नैव कर्तव्यः । आयुर्याति दिने दिने । न करोति यमः क्षांतिं । धर्मस्य त्वरिता गतिः ॥१॥ रम्येषु वस्तुषु मनोहरतां गतेषु । रे चित्त केदमुपयासि किमत्र चित्त । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा । पुण्यं विना न हि भवंति समीहितार्थाः ॥ २॥ पुनः प्रभातं पुनरेव शर्वरी । पुनः शशांकः पुनरुत्थितो रविः ॥ कालस्य किं गच्छति याति जीवितं । तथापि मूढः स्वहितं न बुध्यते ॥ ३॥ ग्रामांतरे विहितशंबलकः प्रयाति । सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा ॥ मूढस्तु दीर्घपरलोकपथप्रयाणे । पाथेयमात्रमपि नो विदधात्यधन्यः ॥४॥ इत्यादिधर्मोपदेशं गुरुमुखान्निशम्य ताभ्यां दंपतीभ्यां सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि स्वीकृतानि ततस्तया भद्रया श्रेष्ठिन्या गुरुभ्यो विज्ञप्तिः कृता, हे भगवन् ! यूयमस्माकमुपरि कृपां विधाय नगरमध्ये समेत्य मदीयोपाश्रये चतुर्मासीं कुरुध्वं ? गुरुभिरुक्तं