________________
विना नास्ति कश्चित् ||३|| ततः सर्वेषु लोकेषु यथास्थानं समुपविष्टेषु गुरुभिर्देशना प्रारब्धा, यथाआर्यदेशकुलरूपबलायु-र्बुद्धिबंधुरमवाप्य नरत्वं ॥ धर्मकर्म न करोति जडो यः । पोतमुज्झति पयोधिगतः सः ॥१॥ यः प्राप्य दुःप्राप्यमिदं नरत्वं । धर्मं न यत्नेन करोति मूढः ॥ क्लेशप्रबंधेन स लब्धमब्धौ । चिंतामणिं पातयति प्रमादात् ||२|| आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ ष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ||३|| प्रमादः परमो द्वेषी । प्रमादः परमं विषं ॥ प्रमादो मुक्तिपूर्दस्युः । प्रमादो नरकालयः ॥ ४॥ अतो भो भव्याः ! प्रमादं परिहृत्य मोक्षसुखदायके
आरो विधेयः एवं सूरिवराणां धर्मोपदेशं श्रुत्वा बहवो धर्मार्थिनो भव्यमनुष्याः सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि जगृहु:, अथ तत्रैवावंत्यां नगर्यां भद्राभिधः श्रेष्ठिवर्यो वसति स्म, तस्य भद्रा नाम्नी शीलादिभूरिगुणगणालंकृता भार्या . तौ दंपती जैनधर्मरतौ सर्वदा शुभभावेन देवगुरुभक्तिं कुर्वाते स्म एवं धर्मकार्यपरयोस्तयोरन्येद्युः शुभस्वप्नसूचितो नंदनोऽभूत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः पुत्रमुखं च दृष्ट्वा तौ दम्पती परमानंदं प्रापतुः, यतः-उत्पतन्निपतन् रिंखन् । हसन् लालावलीर्वमन् ॥ कस्याश्चिदेव धन्याया: । क्रोडमायाति नंदनः ॥ १ ॥ शर्वरीदीपकश्चंद्रः ।
बभूव.
॥ १ ॥