SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अवंती० चरित्रम् ATHI दुर्लभं. यदुक्तं-त्यक्तेऽपि वित्ते दमितेऽपि चित्ते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे ॥ दुःखैकगेहे विदिते च देहे । तथापि । मोहस्तरुणप्ररोहः ॥१॥ जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं । जानामींद्रियवर्गमेनमखिलं स्वार्थेकनिष्टं सदा ॥ जानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं संपदां । नो जानामि तथापि क: पुनरसौ मोहस्य हेतुर्मम ॥२॥ एवं तान् । सर्वान् विलापान् कुर्वतो दृष्ट्वा तच्छोकव्यपोहार्थं गुरुभिस्तेभ्य उपदेशो दत्तः, यथा-जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च ॥ तस्मादपरिहार्येऽर्थे । का तत्र परिदेवना ॥१॥ संयोगा: स्युर्वियोगांता । विपत्सीमाश्च संपदः ॥ स्यादानंदोरी विषादांतो । मरणांता जनिर्बुवं ॥२॥ वज्रकायशरीराणा-मर्हतां यद्यनित्यता ॥ कदलीसारतुल्येषु । का कथा शेषजंतुषु । ॥३॥ उत्पत्तिरत्रास्ति विपत्तिसंयुता । न कोऽप्युपायोऽस्त्यमृतौ शरीरिणां सर्वेक्षिते चाध्वनि सर्वदावहे । ध्रुवे शुचा है। किं सुकृतं विधीयते ॥४॥ रुदता कुत एव सा पुन-र्न शुचा नानुमृतापि लभ्यते ॥ परलोकजुषां स्वकर्मभि-र्गतयो भिन्नपथा हि देहिनां ॥५।। सदा सदाचारपरायणात्मनां । विवेकधाराशतधौतचेतसां ॥ जिनोदितं पंडितमृत्युमीयुषां । न जातु शोच्यं महतां महीतले ॥६॥ अहंद्रक्तिमतां गुरुस्मृतिजुषां क्रोधादिशत्रुद्विषां । शक्त्या पंचनमस्कृतिं च जपतामाज्ञाविधिं तन्वतां ॥ इत्थं सिद्धिनिबंधनोद्यतधियां पुंसां यश:शालिनां । श्लाघ्यो मृत्युरपि प्रणष्टरजसां
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy