________________
रोहिणेयचरित्रम् ॥
BABIE8888888888888888
स्थितौ तत्र प्रासादे योगिमंत्रिणौ । पुनर्द्वितीयदिवसे तथैव तदपश्यतां ॥४३२॥ मंत्रिणा भणितं योगिन् ! कपिमध्ये व्रजाम्यहं । कपिरूपभृदद्य त्वं यद्याख्यासि समाहितः ॥४३३|| यथादोर्मध्यसंस्थोऽहं पश्यामि सकलांस्तरून् । भाग्यसंयोगतो जातु नरवक्षोऽपि लभ्यते ॥४३४॥ आदेशाद्योगिनो मंत्री कुंडे झंपां प्रदत्तवान् । वानररूपमाधाय निर्ययौ कपिमध्यगः ॥४३४॥ चैत्यपूजादिकं कृत्वा रममाणेषु तेषु च । मुख्यवान सत्नी स्वं पतिं पप्रच्छ वाग्मिनं ॥४३६॥ स्वामिन् ! किं नरवृक्षोऽस्ति वृक्षेष्वेतेषु बंधुरः । यस्य दुग्धप्रमाणेन ज्ञायते भूगतं धनं ॥४३७।। प्राह सोऽप्येहि मे सार्थे यथा तदर्शयामि ते । इत्युक्त्वा 0 तच्चचालाशु मिथुनं विपिनौकसः ॥४३८॥ अन्वयासीन्मंत्रिकपिस्तद्युग्मं लीलयोल्ललत् । उपाविशंस्त्रयो गत्वा नरवृक्षोपरि स्थिरा: ॥४३९॥ कपिर्वाग्मी जगौ भार्यां प्रिये सोऽयं नरद्रुमः। नाप्यते नो नृभिर्दत्तं विना सल्लक्षणं नरं ॥४४०॥ तमुपालक्षयन्मंत्रिकपिश्चिद्वैरनेकश: । गतेषु तेषु संस्थानं मंत्री स्वरूपमातनोत् ॥४४१॥ आख्यातं योगिनोऽग्रे च चलितौ तावुभावपि । तस्मिन्नरद्रुमे रम्ये संजातेऽभ्यर्णवर्त्तिनि ॥४४२॥ नीरेण मंत्रिणा योगी कल्पितः पृथ्वीवर्तिना । वृक्षाधिष्ठायकैर्देवैः स सद्यो भक्षितो रटन् ॥४४३॥ अंगरक्षोऽथ सचिवमनालोक्येत्यचिंतयत् । निन्ये कौतुकभंडारे स्वामी मे योगिना ध्रुवं ॥४४४॥ मायाविना गृहीतोऽसौ मारणायैव केवलं । पृष्टौ यास्याम्यहमपि तत्पादौ शरणं मम ॥४४५॥ इति ध्यात्वाचलत्सोऽपि भ्रमंस्तद्वनमासदत् । धर्मकर्मानुसारेण प्राप्तवान् स्वामिनं निजं ॥४४६।। तौ मिथो मुदितौ दोामाशिश्लिषतुरंजसा । अंगरक्षधनुर्लात्वा मंत्री बाणं च संदधे ॥४४७||
38888888888888888888888