SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ रौहिणेयचरित्रम् ॥ BBBBBBBBBBBBBBBBBB चेलतुस्तौ तत: स्थानाद्गच्छतो वनमध्यत: । अपश्यतां क्वचित्स्थाने कृष्णचित्रकवल्लरीं ॥३९९॥ समुद्यतौ तदादाने यदा तौ योगिमंत्रिणौ । भूतसंघातमध्यस्थस्तदैको भूत ऊचिवान् ॥४००|| विना रक्तबलिं नैषा ग्रहीतुं शक्यते लता । हठाग्रहीष्यथश्चेद्वा तदाऽजीवौ भविष्यथ: ॥४०॥ इत्युक्ते योगिना तेन सचिवस्य शरीरतः । रक्तं निष्कासितं भूरि तस्यै भूताय चार्पित ॥४०२॥ लग्नौ यावद् ग्रहीतुं तां तावदादाय भूतराट् । चचाल चान्वधाविष्टां तौ पश्यन्तौ च वल्लरीं ॥४०॥ गिरेमध्येऽस्ति विवरं यमवक्त्रेण सन्निभं । द्वारयंत्रं समुद्घाट्य तत्र भूतः प्रविष्टवान् ।।४०४॥ तत्र तावप्यनुगतौ तत्रैकं कुंडमागतं । जलान्तर्यातवान् भूत उपकंठे च तौ स्थितौ ॥४०५॥ स्वस्मिंश्च सचिवे मंत्रमुद्रां दत्त्वातिबंधुरां । गतौ जलांत: सोपानपंक्तिं तावप्यपश्यतां ॥४०६॥ तामुल्लंघ्य च पातालपुरसीम्नि समागतौ । अपश्यतां प्रौढतरं प्रासादं सप्तभूमिकं ॥४०७॥ भूत: करस्थवल्लीक: प्राविशत्तत्र मंदिरे । तत्रोपविष्टमास्ते च योगिनीचक्रमुद्धतं ॥४०८॥ राक्षसास्तत्प्रतीहारा लब्ध्वा गंधं तयोर्द्वतं । लोलजिह्वा अधावंत मांसास्वादनलंपटाः ॥४०९॥ स्तंभयित्वाथ योगी तान् प्राविशन्मन्दिरांतरे । योगिनीनां पुरः ख्यातं तस्य भूतस्य चेष्टितं ॥४१०॥ योगिनी चक्रमाचख्यौ द्वात्रिंशल्लक्षणैर्युतं । मनुष्यं दीयते हत्वामुष्मै निर्भयचेतसे ॥४११॥ वल्लरीयं ततो लभ्याधिष्ठातास्या अयं यतः । स्वच्छन्दगामी लीलावान् भूतो भैरवनामभृत् ॥४१२॥ सचिवेन ततः खड्गमाकृष्य निदधे द्रुतं । स्वकंठे योगिनीचक्रं संतुष्टं तावदुजगौ।।४१३॥ मार्गेण येनागच्छस्त्वं पश्चात्तेनैव तु व्रज । अस्मत्प्रभावतो मार्गे सुखेनैव गमिष्यसि ॥४१४॥ यस्मादनात्समायातस्तस्मिन्नेव हि गच्छ भोः। नरवृक्षाद्धनप्राप्तिस्तत्रावश्यं भविष्यति ॥४१५॥ एकयाथ EEEEEEEEEEEEEEEEEEEEEEEEE
SR No.600263
Book TitleJain Katha Sangraha Part 02
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages152
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy