________________
तेभ्यः प्रोक्तं, भो निरपराधोऽयं तस्करः, साम्प्रतं ईषद् बद्ध्वा यत्नेन रक्षणीयः, प्रातःकाले च सभायां ममाग्रे आनेतन्यः, तैरपि तथेति * प्रतिपन्नं, ततो राज्ञा सन्तप्तचेतसा तादृशं स्वमहिषीवृत्तान्तं चिन्तयता कथञ्चित् सा रात्रिरतिक्रान्ता, अथ प्रातः समये आरक्षकैः *
&सलथबन्धनैर्ववा नृपाग्रे आनीतः, नृपेण च साक्षेपं पृष्टः सन् सस्पष्टतया सर्वमपि यथास्थितं वृत्तान्तं रा या मधुरवाण्याऽहं जल्पित * पूल Rइत्येतत्पर्यन्तमुक्त्वा मौनभजत्, ततो विज्ञातपरमार्थों राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्गय प्रोवाच हे सत्पुरुषः !* चरित्र रत्र 8तव साहसेनाहं तुष्टोऽस्मि। तत एपाऽग्रमहिषी मया तुभ्यं प्रासादिता, त्वमेना गृहाण । स प्रोचे, राजन् ! या ते पट्टराज्ञी सा मे X
ध्रुवं माता, तस्मादेतद्वचः पुनर्न वाच्यम्, ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा क्षोभितोऽप्यसौ यदा नियमान चलितः तदाऽस्य * धीरत्वेनातिसन्तुष्टो राजा एनं पुत्रपदे स्थापितवान्, तां स्त्रियं च हन्तुमिच्छन्नपि अस्य वचसा जीवन्तीममुश्चत्, ततो वकचूलः स्वस्य भगिनीं * पत्नी च तत्रानाय्य ताभ्यां सहितः सुखेनास्थात्, तथा धर्मे सजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं बबन्ध, तान् नियमदातॄन् गुरूंश्च * नित्यं सस्मार, एकदाऽस्य भाग्योदयात्त एवाचार्यास्तत्र समेताः, अयं च महताऽऽडम्बरेण गुरुवन्दनार्थ गतः, तत्र शुद्ध धर्मस्वरूपं श्रुत्वा
तत्त्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान्। तदा चोज्जयिनीपार्श्ववर्त्तिशालिग्रामनिवासी जिनदासाख्यः श्रावकस्तस्य परममित्रमभूत् । एकदा राज्ञा ॐकामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थ वकचूलः समादिष्टः, तदा सोऽपि नृपादेशात् तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं ॐच वैरिकृतशस्त्रप्रहारैर्जर्जरः सन् उज्जयिनी पुरीं समाजगाम । तत्र च राज्ञैतत्पीडया पीडितेन बहून् वैद्यानाकार्य तैरस्य चिकित्सा कारिता ॐ। परं कथमपि प्रहारा न संहिताः, तदा राज्ञा सरोष पृष्टैवैद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं, तत् श्रुत्वा राजा वचूलं गाढमालिंग्य साश्रुलोचनः
सन् इत्थं प्रोवाच-हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अथैकं वायसामिपं भेषजं विद्यते तद् गृहाण, येन ते शरीरे सौस्थ्यं स्यात्, स प्रोचे हे नाथ ! अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि, ततो मे वायसामिषान कार्य, राज्ञोक्तं वत्स ! जीवतो जन्तोर्नियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यान्ति तस्मादिदं भक्षय, तदा स नृपोक्तं वचो निशम्य प्रोचे,
COCOCOCOCCOCOCOCOCK)