SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तेभ्यः प्रोक्तं, भो निरपराधोऽयं तस्करः, साम्प्रतं ईषद् बद्ध्वा यत्नेन रक्षणीयः, प्रातःकाले च सभायां ममाग्रे आनेतन्यः, तैरपि तथेति * प्रतिपन्नं, ततो राज्ञा सन्तप्तचेतसा तादृशं स्वमहिषीवृत्तान्तं चिन्तयता कथञ्चित् सा रात्रिरतिक्रान्ता, अथ प्रातः समये आरक्षकैः * &सलथबन्धनैर्ववा नृपाग्रे आनीतः, नृपेण च साक्षेपं पृष्टः सन् सस्पष्टतया सर्वमपि यथास्थितं वृत्तान्तं रा या मधुरवाण्याऽहं जल्पित * पूल Rइत्येतत्पर्यन्तमुक्त्वा मौनभजत्, ततो विज्ञातपरमार्थों राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्गय प्रोवाच हे सत्पुरुषः !* चरित्र रत्र 8तव साहसेनाहं तुष्टोऽस्मि। तत एपाऽग्रमहिषी मया तुभ्यं प्रासादिता, त्वमेना गृहाण । स प्रोचे, राजन् ! या ते पट्टराज्ञी सा मे X ध्रुवं माता, तस्मादेतद्वचः पुनर्न वाच्यम्, ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा क्षोभितोऽप्यसौ यदा नियमान चलितः तदाऽस्य * धीरत्वेनातिसन्तुष्टो राजा एनं पुत्रपदे स्थापितवान्, तां स्त्रियं च हन्तुमिच्छन्नपि अस्य वचसा जीवन्तीममुश्चत्, ततो वकचूलः स्वस्य भगिनीं * पत्नी च तत्रानाय्य ताभ्यां सहितः सुखेनास्थात्, तथा धर्मे सजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं बबन्ध, तान् नियमदातॄन् गुरूंश्च * नित्यं सस्मार, एकदाऽस्य भाग्योदयात्त एवाचार्यास्तत्र समेताः, अयं च महताऽऽडम्बरेण गुरुवन्दनार्थ गतः, तत्र शुद्ध धर्मस्वरूपं श्रुत्वा तत्त्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान्। तदा चोज्जयिनीपार्श्ववर्त्तिशालिग्रामनिवासी जिनदासाख्यः श्रावकस्तस्य परममित्रमभूत् । एकदा राज्ञा ॐकामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थ वकचूलः समादिष्टः, तदा सोऽपि नृपादेशात् तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं ॐच वैरिकृतशस्त्रप्रहारैर्जर्जरः सन् उज्जयिनी पुरीं समाजगाम । तत्र च राज्ञैतत्पीडया पीडितेन बहून् वैद्यानाकार्य तैरस्य चिकित्सा कारिता ॐ। परं कथमपि प्रहारा न संहिताः, तदा राज्ञा सरोष पृष्टैवैद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं, तत् श्रुत्वा राजा वचूलं गाढमालिंग्य साश्रुलोचनः सन् इत्थं प्रोवाच-हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अथैकं वायसामिपं भेषजं विद्यते तद् गृहाण, येन ते शरीरे सौस्थ्यं स्यात्, स प्रोचे हे नाथ ! अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि, ततो मे वायसामिषान कार्य, राज्ञोक्तं वत्स ! जीवतो जन्तोर्नियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यान्ति तस्मादिदं भक्षय, तदा स नृपोक्तं वचो निशम्य प्रोचे, COCOCOCOCCOCOCOCOCK)
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy