________________
॥
६
॥
*हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्यं मृत्युर्भावी, तस्माज्जीवितं याति चेत् अधुनैव यातु परमेतदकृत्यमहं न * #कुर्वे, ततो राजा वचूलस्य मित्रं शालिग्रामवर्त्तिनं ज़िनदासश्रावकमाह्वातुं निजं नरं प्रेषीत्, सोऽपि मित्रस्नेहात् सद्यस्ततश्चलितो मार्गे 8
*च रोदनोद्यतं दिव्यं स्त्रीद्वयं विलोक्य के युवां किं वा रुदिथ इति पप्रच्छ, ताभ्यामुक्तमावां सौधर्मकल्पवासिन्यौ देव्यौ, भर्तुश्च्यवना * वकपूल 8 विरहविह्वले सत्यौ वंकचूलाख्यं क्षत्रियं भर्तारं प्रार्थयावहे, सोऽद्य त्वद्वचसा चेनियमं भक्ष्यति, तर्हि आशु दुर्गतिं गन्ता, तेन सम्प्रति *
चरित्र रुदिवः । ततो जिनदासेनोक्तं - मा रोदिष्ट, यद् भवत्योरिष्टं तदेव करिष्यामि इत्युक्त्वा ते आश्वास्य स श्राद्ध उज्जयिनी समाजगाम * ॥ ६ ॥ । तत्र च तेन नृपादेशान्मित्रमन्दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं विलोक्य *
राजादि सर्वलोकसमक्ष प्रोक्तं, अस्य धर्म एवौषधं युक्तं, अतोऽपरा काप्यौषधादिप्रवृत्तिर्न कार्या, वंकचूलेनापि प्रोक्तं, हे मित्र ? यदि * त्वं मयि स्नेहं दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य सम्बलं देहि, ततस्तेनापि सम्यग् रीत्याराधना कारिता, तदा कचूलश्चतुर्विधाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत्य पञ्चपरमेष्ठिनमस्कारं स्मरन् सर्वजीवेषु निर्वैरतां दधत् प्राक्कृतं दुःकृतं निन्दन् सुकृतं चानुमोदयन् समाधिना कालं कृत्वा द्वादशमे देवलोके देवत्वं सम्प्राप्तः । ततो जिनदासस्तस्यौदेहिकं कृत्वा गृहे ब्रजन् मार्गे ते द्वेऽपि देव्यौ पूर्ववद्रुदत्यौ वीक्ष्य पृष्टवानथ हे भद्रे ! अद्यापि युवाभ्यां किमर्थमत्रैवं विलप्यते. सौऽखण्डितव्रतः सन् इतो मृत्वा भवत्योर्वल्लभः
किं न जातः ? तदा ते देव्यौ निःश्वस्योचतुः हे स्वच्छाशय ! किं पृच्छसि ? स ते सुहृत्प्रान्ते परिणामविशुद्ध्याऽस्मान् व्यतीत्य द्वादशं * स्वर्ग जगाम, एतत् श्रुत्वा परमानन्दं सम्प्राप्तो जिनदासः सुहृदं ध्यायन् श्रीजिनधर्म चानुमोदयन् स्वगृहं ययौ ॥
CHOCOCCCCCCCC)
॥ इति नियमपालने वचूलवृत्तान्त: सम्पूर्ण: ॥