________________
॥
२
॥
बंकचूल चरित्र
उक्तंच . "जो देइ उवस्सं मुणि-वराण तवनियमजोगजुत्ताणं ।
तेणं दिन्ना पत्थन्नपाणसयणासणं विगप्पा ॥१॥ पावइ सुरनरऋद्धी सुकुलुप्पत्ती य भोगसामग्गी ।
0 नित्थरइ भवमगारी सिज्झादाणेण साहूणं ॥२॥ ___ ततो वर्षाकालेऽतिक्रान्ते गुरुभिस्तं वंकचूलमापृच्छय विहारे क्रियमाणे सोऽपि तेषां सत्यप्रतिज्ञतादिगुणैहृष्टः सन् भक्त्या तान् गुरुनन्वगात्, तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनिवियोगविह्वलः सन् गुरुन् नत्वा व्यजिज्ञपत्, स्वामिन्नितः परं परेषां सीमा विद्यते, अतोऽहं वलिष्ये, पुनर्मम भवदर्शनं सद्यो भवतात्, एवं तेनोक्ते सति गुरवो मधुराक्षरैस्तं प्रोचुः, हे सौम्य ! भवत्साहाय्याद्वयमियत्कालं सुखं स्थिताः, अथ यदि तुभ्यं रोचते तर्हि प्रत्युपकत्तुं किश्चिद् ब्रूमः, तेनोक्तं-यादृग्मया सुखेन पालयितुं शक्यते, तादृशेनैव वचसा मयि 3
प्रसादो विधीयताम्, तदा गुरुभिरुक्तं “यस्याभिधानं केनापि न ज्ञायते तत्फलं त्वया न भक्षणीयम् १ । तथा कर्हिचित्परं प्रहर्तुमिच्छता 6 सप्ताष्टौ पदानि अपसर्त्तव्यम् २ । तथा राज्ञः पट्टदेवी मातृवद् गणनीया ३ । अथ वायसामिषं कदापि न भक्षणीयम् ४ एते ४ ॐ चत्वारोऽप्यभिग्रहास्त्वयैकचित्तेन पालनीयाः, एतत्पालने तवोत्तरोत्तरं महालाभो भावी, ततः सोऽपि गुरवचसा नम्री भूतः सन् महाप्रसाद ॐ इत्युक्त्वा आत्मोपकारिणस्तान् चतुरोऽपि नियमान् गृहीत्वा स्वस्थानमायातः, गुरवोऽपि विहारं कृत्वाऽन्यत्र गताः, ॥
अथैकदा ग्रीष्मत्तौ स पल्लीपतिर्मिल्लसेनापरिवृतः सन् कश्चिद् ग्रामं हन्तुमचलत् परं कुतोऽपि तवृत्तान्तमवगम्य स ग्रामः पूर्वमेव पलाय्य गतः । तदा वंकचूलः सपरिच्छदो व्यर्थीभूतपरिश्रमः क्षुधातृषाभिभूतश्च सन् मध्याह्ने ततो व्यावृत्त्याटव्यां कास्यापि तरोरधस्तानिषण्णः, ॐ तत्र च क्षुधापीडितैः कियद्भिर्भिल्लैरितस्ततो भ्रमद्भिः कापि निकुळे सुरभिगन्धसद्वर्णपरिपक्वफलैर्नम्रीभूतं किम्पाकतरुं वीक्ष्य सद्यस्तत्फलानि ॐ