________________
सुभूमचक्रवर्ति
कथा
ll ell
* आयतने स मुमोच. एवं तौ संध्याकाले पूजार्थं गोत्रदेवीमंदिरे गच्छन्तौ दृष्टवा हट्टस्थितश्रेष्ठिपुत्रः समुद्रदन्तः उत्थाय तौ प्रत्युक्तवान्, अत्र फ्रैं * संध्यासमये पूजावसरो नास्ति, इत्युक्त्त्वा तावेकान्तं तत्र चतुष्पथे संस्थाप्य स्वयं च तत्पुष्पादि गृहीत्वा देवालये प्राविशत् तदा संकेततस्तत्रागतेन * पिगलचांडालेन ज्ञातं यत्स एव पुरुषः समागतः, इति विचार्य तेन स श्रेष्ठिपुत्रः समुद्रदत्तः खड्गेन व्यापादितः, चिंतितं चाय मया श्रेष्ठिनो ॐ मनोवांञ्छितं कार्यं विहितं. अथ क्रमेण तत्र हाहारवो जातः, सागरपोतो निजपुत्रमरणं विज्ञाय वक्षःस्फोटनेन पुत्रवियोगदुःखितो मृत्युमाप, अथ कुटुंबिभिर्मिलित्वा स दामनकस्तस्य श्रेष्ठिनो गृहादिसर्वधनस्यप्रभुश्चक्रे अथ स दामनको यौवनेऽपि धर्मं चकार परं विषयेषु वांछां न व्यघात्, एकदा तेन कस्यचित्साधोरग्रे धर्मदेशना श्रुता, देशनाश्रवणानंतरं दामनकेन पृष्टं हे भगवन् ! कृपां विधाय यूयं मम पूर्वभवं कथयत ? मुनिनोक्तंभो दामनक श्रृणु ।
अस्मिन्नेव भरतक्षेत्रे गजपुरनगरे सुनंदाख्य एकः कुलपुत्रोऽभूत्, तस्य जिनदासाख्यः सुहृद् बभूव, एकदा तौ उद्याने गतौ, तत्रस्थं कंचनाचार्य निरीक्ष्य सुनंदो मित्रसहितस्तदंतिके समागत्य स्थितः, आचार्येण देशना दत्ता, देशनामध्ये आचार्येण कथितं, यो मनुष्यो मांसं ॐ भक्षयति स बहुदुःखभाग्नरकगामी च भवति, इति श्रुत्वा स जातसंवेगो मांसभक्षणस्य शपथं जग्राह, जीवरक्षायां च तत्परोऽभूत्, तदादितः स ॐ कदापि जीवहिंसां नाऽकरोत्. अथ कियत्कालानंतरं तत्र कल्पांतकालोपमो दुष्कालः पतितः सर्वे जनाच मांसभक्षणतत्परा जाताः, तदा सुनंदस्य भार्या तं प्रति कथयति, हे स्वामिन् ! त्वमपि नद्यास्तीरे याहि, तत्र च नदीमध्ये जालं विस्तार्य मत्स्यान् गृहीत्वानय ? येनास्मत्कुटुंबस्य पोषणं भवेत्. इति तयोक्तोऽसावुवाच, हे प्रिये ! इदं कार्यं कदाप्यहं न करोमि, अस्मिन् कार्ये महाहिंसा भवति, तदा तद्भार्ययोक्तं, त्वं ★ कैश्चिन्मुंडकैर्वचितोऽसि, अतस्त्वं दूरे याहि, एवं भार्यया बहुशो निर्भत्सनान्सुनंदो द्रहे मत्स्यान् निष्कासयितुं गतः, तत्रागाधे जले च जालं चिक्षेप. तत्र जालमध्ये पतितान् मीनान् दुःखाकुलान् वीक्ष्यानुकंपया स तान् पुनर्जलमध्येऽमुंचत्. दिनद्वयावधि तेनैवमेव कृतं तृतीयदीनेऽप्येवं
llell