SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥८॥ सुभूमचक्रवर्ति कथा ॥८ ॥ त्वया निःशंकमनसा विषं देयं, तस्मिन् कार्ये ममाज्ञास्ति. अथ दामनकस्तं लेखं गृहीत्वा नगरसमीपे समागत्य विश्रामहेतोरुद्यानस्थस्मरदेवकुले * स्थितः, मार्गश्रमतश्च तस्य तत्र निद्रा समागता. इतस्तस्य सागरपोतश्रेष्ठिनो विषाभिधाना पुत्री वरार्थिनी स्मरदेवं पूजयितुं तत्र समागता. स्मरदेवं च प्रपूज्य यौवनावस्थाप्रादुर्भावतः सा देवं प्रति वरं ययाचे. इतस्तया तत्र निद्रितदामनकस्य पार्श्वे निजपितृमुद्रांकितो लेखो दृष्टः, * हस्तलाघवात्तया च स गृहीतः, तत्र लिखितं चोदंतं विज्ञाय तया चिंतितं, अहो मनोज्ञरुपो युवायं वर्त्तते, ममापि मानसमस्योपर्येव मोदते, * *अतोऽस्य युनो विषदानतो मारणमयोग्यमेव. इति विचार्य तया कज्जलशलाकया विषशब्दोपरिस्थं बिंदुं चिलुप्य तस्य स्थाने विषा इत्यकरोत्. ** पुनस्तं लेखं मुद्रयित्वा दामनकस्य पटांचले सा बबंध. ततः स्वयं च निजगृहे समागता, इतो घटिकानंतरं दामनकः प्रबुद्धः, शीघ्रं नगरमध्ये समागत्य तं लेखं श्रेष्टिपुत्राय समुद्रदत्ताय दत्तवान्. समुद्रदत्तेन लेखं वाचयित्वा विचारितं, यत्पित्रा लिखितमस्ति अस्मै विषा प्रदीयतां, तस्मिन् । विषये कोऽपि संदेहो न कार्य::, अतो मयापि तदाज्ञानुसारेणैव कर्त्तव्यं । इति विचार्य तेन तयोः शीघ्रमेव विवाहोत्सवो विहितः. अथ विवाहादिनद्वयानंतरं सागरपोतकर्णपणे सा वार्ता गोकुलमध्ये एव जनमुखात् । * समागता, तेन सोऽतीव विषण्णः सन् ततो नगरं प्रति प्रस्थितः, मार्गे स मनसि चिंतयति, मया यत्किंचिद्विधीयते तत्सर्वं विधिस्त्वन्यथा ** ** करोति, नूनमयं मद्गृहजामाता जातः, तथाप्यहं पुनरेनं ब्यापादयामीति चिंतयन् स दुष्टात्मा पिंगलनाम्नस्तस्य मातंगस्य गृहे समागत्य तं? * प्रत्युवाच, अरे चांडाल ! स त्वया कथं न मारितः ? सत्यं वद, चांडालेनोक्तं-भो श्रेष्टिन् ! तदा दयापरिणामवशतो मया स न व्यापादितः, अथ पुनस्तं बालं मम दर्शय, यथा तं मारयित्वा तब मनोरथं सफलीकरोमि. अथ श्रेष्ठिनोक्तं भो पिंगल ! अद्याहं तं दामनकं संध्याकाले मम गोत्रदेव्या आयतने प्रेषयिष्ये, तदा त्वया तत्र स हंतव्यः, अथ संध्यासमये श्रेष्ठी समागत्य तौ वधूवरको प्रतीदमब्रवीत्, अरे युवाभ्यामद्यापि किं कुलदेव्याः पूजनं न कृतं ? यत्प्रसादादयं भवतोः संगमो जातोऽस्ति, इत्युक्त्वा पुष्पादिभृतभाजनयुतौ तौ दंपती संध्यासमये पूजार्थं गोत्रदेव्या *
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy