________________
ዘ ሀ ሀ
*स्वयमपि तस्य चांडालस्य गृहे गतः, तत्र गत्वा तेन तं चांडालं प्रत्युक्त्तमहं तुभ्यं मुद्रापंचकं दास्ये. त्वमेनं शिशुं शीघ्रं हत्वा मां दर्शयेः, इत्युक्त्त्वा *स निजगृहं गतः, अथ स मातंगस्तं बालकं सुरुपं वीक्ष्य करुणापरोऽभूत्. ततोऽसौ चिंतयामास यदनेन शिशुनापि सागरपोतस्य कोऽपराधः
कृतो भविष्यति । द्रव्यलोभतो मयापीदृकर्म नोचितं कर्तु, अतो मयाऽस्मै बालाय जीवितदानमेव देयं, इति विचार्य स चांडालः ककिया तस्य **
शिशोः कनिष्टांगुली छित्वा तं प्रत्युवाच, भो बाल ! अथ त्वमितो द्रुतं पलायस्व यदि जीवितं वांछसि, अन्यथा त्वामनया कर्बिकयाऽहं - सुभूमचक्रवर्ति
नति ब्यापादयिष्यामि. तत् श्रुत्वा वाताहतद्रुम इव कंपमानांगः स ततः पलाय्य यस्मिन् ग्रामे सागरपोतस्य गोकुलमभूत्तत्र गतः, तत्र कथा
** नंदाभिधानेनोऽपुत्रकेन गोकुलस्वामिना स पुत्रतया स्थापितः, अथ स चांडालस्तस्य कनिष्ठांगुली गृहीत्वा सागरपोतस्य पार्श्वे समागत्य तं, ॥७॥ तदभिज्ञानं दर्शितवान् तदृष्ट्वा सागरोऽपि स्वमनसि सहर्षो जातः चिंतितवांश्च मया मुनेर्वाक्यं विफलीकृतं, एवं स सागरपोतः सुखेन तिष्ठति.
अथान्यदा स निजगोकुले गतः, तत्र नन्दगृहे छिन्नागुलिकं तं दामनकं यौवनस्थं दृष्ट्वा स विषण्णो जातः, नन्दं च पप्रच्छ, अयं तव * पुत्रः कदा जातः ? कुतो वा त्वया समुपलब्धः ? सत्यं ब्रूहि ? तदा नन्देन कथितं, अस्य बालकस्य कनिष्ठांगुलि केनचित्कारणेन चांडालेन । छेदिता, तद्भयात्पलाय्य सोऽत्र मदीये गृहे समागतोऽस्ति, मया च स पुत्रत्वेन रक्षितोऽस्ति. तत् श्रुत्वा सागरपोतेन विचारितं नूनं मुनेर्वचः सत्यं में जातं. इति विचार्य चिंतातुरः श्रेष्ठि स्वपुरं प्रति चलितुं प्रवृत्तः, तदा नंदेन कथितं भो श्रेष्ठिन्नधुनैव भवतामत्रागमनं जातं, ततः शीघ्रं पश्चात्कथं प्रस्थानं क्रियते ? किं किंचिद् गृहकार्य त्वया विस्मृतमस्ति ? तदा श्रेष्ठिनोक्तं-ममैकं महद् गृहकार्य स्मृतिपथमागतं, ततोऽहं शीघ्रं गच्छामि. ** तदा नंदो जगाद, चेद्भवतां किंचिन्महत् शीघ्रं च करणीयं कार्य भवेत्, तर्हि लेखं लिखित्वा ममास्य पुत्रस्य समर्पय ? स शीघ्रमेवेतो गत्वा तं लेखं भवत्पुत्राय तत्र समर्पयिष्यति. श्रेष्ठिनेऽपि तद्रुचितं, अतोऽसौ लेखमेकं लिखित्वा दामनकाय ददौ, सोऽपि तं लेखं गृहीत्वा द्रुतं राजगृहनगरसमीपे समागतः. अथ तस्मिन् लेखे तेन दुष्टेन पापिष्ठेन श्रेष्ठिना स्वपुत्रं प्रतीति लिखितमासीत्, यदस्य लेखस्य समर्पयितारं प्रति