________________
॥५॥
वैताढयपर्वतवासीमेघनादनामविद्याधरेणैको नैमित्तिकः पृष्टो यन्मम पुत्र्याः को वरो भविष्यति ? नैमित्तिकेनोक्तं-सुभूमनामा चक्री तव सुताया है * वरो भविष्यति, तदा तेन विद्याधरेण सुभूमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता, तया सह सुखानि भुंजानः स तत्रैव भूमिगृहे तिष्ठति.. अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्टा हे मातः ! पृथ्वी किमेतावत्प्रमाणैव वर्त्तते ? तदा मात्रोक्तं हे पुत्र ! आवां तु शत्रुभयतोऽस्मिन् ।
तापसाश्रमे भूमिगृहमध्ये एव तिष्ठावः, परशुरामेण तव पितरं हत्वा हस्तिनापुरराज्यं गृहीतमस्ति. इत्यादिवृत्तांतं श्रुत्वा सुभूमः क्रुद्धः सन् सुभूमचक्रवर्ति भूमिगृहानिःसृत्य निजश्वशुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः, तत्र च तस्य दृष्टिपातात्तदंष्ट्राभृतः
स्थालः क्षरेयीभृतः संजातः, सुभूमेन सा सर्वापि क्षैरेयी भक्षिता, तद् ज्ञात्वा परशुरामेण चिंतितं, नूनं मम हताऽयमेव, ततः परशुरामस्याज्ञया ॥३॥ तत्सेवकास्तं हेतुं समागताः, परं मेघनादविद्याधरेण ते सर्वेऽपि पराजिताः, तद् वृत्तांतं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः, परं तत्र सुभूमं ।
- दृष्ट्वा स प्रतापरहितो जातः, इतः सुभूमेन तं स्थालमुत्पाट्य परशुराम प्रति क्षिप्तः, तत्क्षणं चक्ररूपीभूतः स स्थालः परशुरामस्य मस्तकमलुनात्, * एवं सुभूमश्चक्री जातः. ततो वैरं स्मृत्वा तेनैकविंशतिवारानिर्ब्राह्मणी पृथ्वी कृता. चक्रादिरत्नबलेन तेन षट्खंडानि साधितानि तथापि तस्य । लोभोदधिः परां वृद्धि प्राप. ततोऽसौ धातकीखंडस्थभरतक्षेत्रसाधनार्थं लवणसमुद्रमध्ये सहस्रदेवाधिष्ठितचर्मरत्नोपर्यारुह्य ससैन्यः प्रस्थितः, इतः
समुद्रमध्ये मार्गे चर्माधिष्ठायकानां मध्यादेकेन देवेन चिंतितमहं श्रांतोऽस्मि, अपरे च नवशतनवनवतिदेवा विद्यन्ते. ततोऽहं क्षणमंतच्चर्मरत्नं ५ * त्यक्त्वा विश्रामं लभेयमिति विचिंत्य तेन तन्मुक्तं, भाविवशाच्छेषाणां सर्वेषामपि देवानां मनस्सु स एव विचारः प्रादुर्भूतः, ततस्ते सर्वेऽपि *
चर्मरत्नं त्यक्त्वा दूरीभूताः, तेन ससैन्यः सुभूमः समुद्रमध्ये पतित्वा मृतः, लोभार्तध्यानवशाच्चसप्तमं नरकं गतः,
********
王中王中王