________________
॥४॥
* कृताः, एवं तेन स्वकीयं सर्वमपि तपो निष्फलीकृतं, अथ तेन सा कन्या निजाश्रमे स्थापिता. यौवनं प्राप्ता च परिणीता, रेणुकेति तस्या ** अभिधानं जातं, तया सह स विषयसुखानि भुनक्त्ति. अथैकदा ऋतुकालसमये तस्यै जमदग्निनोक्तं हे प्रियेऽथाहं त्वां प्रत्येकं वस्तु साधयित्वा
दास्यामि, येन तब पुत्रोत्पर्त्तिभविष्यति, तदा रेणुकयोक्तं हे स्वामिन् ! युष्माभिमत्रै झै वस्तुनी साधयितव्ये. यथैकेन वस्तुना क्षत्रियः पुत्रो में सुभूम
* द्वितीयेन च ब्राह्मणः पुत्रो भवेत्, तापसेनापि तथा कृतं, तद्वस्तुद्वयं च रेणुकाग्रे मुक्त्तं. अथ रेणुकया तन्मध्यादेकमौषधं जग्धं, तत्प्रभावतश्च । चक्रवर्ति
* तस्या महाशूरो महाप्रतापी च रामनामा पुत्रोऽभूत्, अपरं चौषधं हस्तिनागपुरे स्वभगिन्यै अनंगसेनायै प्रहितं, तया च तद्भक्षितं, तत्प्रभावेण कथा
*च तस्या अपि कृतवीर्यनामा पुत्रो जातः, इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः, रामेण तस्य परिचर्या कृता, ततो ॥४॥
** जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता, तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी स्थातुं न शक्नोति. * अथैकदा सा रेणुका निजभगिन्या अनंगसेनाया मिलनार्थं हस्तिनागपुरेऽनंतवीर्यराज्ञो गृहे समागता, तां मनोज्ञरूपां दृष्ट्वाऽनंतवीर्यः
कामविह्वलो जातः, क्रमेण परस्परप्रीत्युद्भावनतोऽनंतवीर्येण सा भुक्ता. ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः, अथान्यदा तत्पुत्रयुता। * रेणुका जमदग्निना स्वाश्रमे समानीता. एतदकार्यतो जातक्रोधेन रामेणानंतवीर्यः परशुना हतः, तद् ज्ञात्वाऽनंतवीर्यपुत्रकीर्त्तिवीर्येण पितुर्वैरात्तदाश्रमे *
आगत्य जमदग्निर्हतः, तदा परशुरामेण कीर्त्तिवीर्यं हत्वा हस्तिनागपुरस्य राज्यं गृहीतम्. इतः कीत्तिवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य में बने तापसानामाश्रमे गता. तापसैरपि सा भूमिगृहे स्थापिता. तत्र तस्याश्चतुर्दशस्वप्नप्रसूचितः सुभूमनामा पुत्रो जातः, अथ परशुरामेण भ्रांत्वा ** * परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां दंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः. अथैकदा परशुरामेण
नैमित्तिकः पृष्टो यन्मम मरणं कस्य हस्ताद्भविष्यतीति, तदा नैमित्तिकेनोक्तं यस्य दृष्टा दंष्ट्राः क्षैरेयीरूपा भविष्यंती यश्च तां क्षैरेयीं भोक्ष्यते स । * पुरुषस्तव हंता भविष्यतीति. तदा परशुरामेण तं शत्रु ज्ञातुमेका सत्रशाला स्थापिता. मुक्तश्च तत्र स क्षत्रियदंष्ट्राभृतः स्थालः सिंहासनोपरि. इतो