SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुभूम ॥३॥ कथा ॥३॥ * ** · अथ शिवशासने वृद्धतापसपरीक्षार्थ तौ देवी चलितो, इतः पूर्वोक्त्तो जमदग्निनामा वृद्धस्तापसस्ताभ्यां दृष्टः, नगरलोका अपि तस्य पार्थे कि ** समागत्य तत्सेवां प्रत्यहं कुर्वति, तस्य मस्तके महती जटा वर्त्तते, अथ तौ देवौ तस्य परीक्षार्थ चटकचटकीयुग्मरूपं विधाय तस्य कूर्चमध्ये आलयं * * कृत्वा स्थिती, एकदा चटकेन मनुष्यभाषया चटिकां प्रति कथितं, हे प्रिये ! अहं हिमवंतपर्वते गत्वा द्रुतमेवागमिष्यामि, तदा चटिकयोक्तं चेत्तत्रैव त्वं कयापि चटिकया सहासक्त्तः सन् तिष्ठे:स्तदाहं किं कुर्वे ? अतो भवता न तत्र गंतव्यं, तत् श्रुत्वा पुनश्चटकेनोक्तं-चेदहं पश्चान्नागच्छामि ** तर्हि स्त्रीहत्यागोहत्यादि पातकं मेऽस्तु, तथैव कृतघ्नविश्वासघातकपरनिंदकानां या गतिर्भवेत् सा मे गतिरस्तु, चटिकयोक्त्तमेनत्किंचिदप्यहं न मन्ये, परं त्वं मयोक्त्तमेकं शपथं कुरु, यथा मम प्रत्ययो भवेत्, चटकेनोक्तं कथय, तयोक्त्तं - चेत्त्वं पश्चान्न यासि तदाऽस्य महर्षेः पापं ते भवतु इति शपथं कृत्वा त्वं याहि ? तत् श्रुत्वा जमदग्निः क्रुद्धः सन् स्वकूर्चमध्यात्तच्चटिकायुग्ममाकृष्य करे च धृत्वोवाच अरे चटिके ! मया किं पापं कृतं ? तद्वद, चटिकयोक्तं हे ऋषे ! त्वमात्मनः शास्त्रं विचारय ? उक्त्तं च - अपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं । * दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥१॥ तेन अपुत्रस्य गृहं शून्यमित्यादि. अतः कारणात् भो मुने ! त्वं क्रोधं संबर ? स्वगृहं च याहि, ऋषिणापि तद्वचो । मानितं, अथ स जमदग्नितापसो गृहे गत्वा बहुपुत्रीपितुःक्रोष्टिकनगराधिपतेर्जितशत्रोर्नृपस्य पार्श्वे समागत्यैकां कन्यां ययाच, एवं तं तापसं * चलचित्तं तपोव्रताच भ्रष्टं विज्ञाय स मिथ्यात्वी देवो जैनधर्मे दृढानुरागी जातः, अथ तापसयाचनानंतरं राज्ञोक्तं-मम पुत्रीशतं वर्त्तते, तन्मध्याद्या । * त्वां वांछेत तां गृहाण, तदा स ऋषिर्नृपस्यांतःपुरे गतः, तत्र सकलाः कन्यास्तं तापसं जटिलं दुर्बलं असंस्कृतदेहं मलिनांगोपांगं च दृष्ट्वा तं ** प्रति थूत्कृतं चक्रुः, तदाकुपितेनर्षिणा ताः सर्वा अपि कन्याः कुब्जीकृताः, पश्चाद्वलितेन तेनैका नृपकन्या नृपप्रासादांगणे रममाणा दृष्टा, तस्यै ** निजरूपं सम्यक् प्रदर्य तेनोक्तं त्वं मां वांच्छसि ? इत्युक्त्वा तस्या हस्ते बीजपुरकफलं दत्त्वा तामुत्पाट्य स चलितः, शापभयभीतेन राज्ञा सहस्रगोकुलदासदासीसहिता सा कन्या तस्मै दत्ता, पश्चात्तेनर्षिणा नृपविनयतुष्टेन तपःप्रभावात्ताः सर्वा अपि कुब्जीभूताः कन्याः समीचीनाः
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy