________________
॥२॥
* स्वस्वधर्मपरीक्षार्थ मनुष्यलोके समागतो. अथ जैनधर्मिणा वैश्वानरदेवेनोक्तं, जिनधर्ममध्ये जघन्यो नवदीक्षितो यः साधुस्तस्य परीक्षा कर्त्तव्या, में * शिवधर्ममध्ये च यः पुरातनस्तापसस्तस्य परीक्षा कर्त्तव्या, इतो मिथिलानगर्याः, पद्मरथो राजा राज्यं त्यक्त्वा चंपानगाँ श्रीवासुपूज्यस्य
द्वादशमतीर्थकरस्य पार्श्वे दीक्षां गृहीतवान्, तं पद्मरथं नवीनं साधुं दृष्ट्वा उभावपि देवौ तत्रागत्य तस्य परीक्षां कर्तुं प्रवृत्ती. नानाप्रकाराणि ** सुभूम
मिष्टभक्त्तानि शीतलानि पानीयानि च तस्मै ताभ्यां दर्शितानि, उक्तं च भो साधो ! गृहाणेमानि, तानि दृष्ट्वा क्षुधातृषापीडितोऽपि साधुरग्राह्याणि चक्रवर्ति ज्ञात्वा न गृहीतवान्, एवं साध्वाचाररक्षणार्थमेका परीक्षा जाता। अथ द्वितीयां परीक्षां कुरुतः, एकस्मिन् ग्राममार्गे ताभ्यां कंटकाः कर्कराश्च कथा विकुर्विताः, द्वितीयमार्गे च मण्डुक्यो विकुर्विताः, स साधुर्महानुभावो जीवदयापालनार्थे तं मंडुकीसत्कं मार्ग त्यक्त्वा सकंटकमार्गे याति, तैः ॥२॥ कण्टकैश्च तस्य महोपसर्गो जातः, पादाभ्यां रुधिरं स्थाने स्थाने निस्सरति, तथापि स स्वधर्मान्न परिभ्रष्टः । अथ तौ तस्य तृतीयां परीक्षा
कुरुतः, ताभ्यां दिव्यमायया मनोहररुपलावण्योपेताः स्त्रियो विकुर्विताः, ताः स्त्रियस्तस्य साधोरग्रे नानाप्रकाराणि नृत्यादीनि हावभावान् ** * भोगप्रार्थनादीनि च कुर्वन्ति. तथापि तस्य साधोर्मनो मनागपि स्वधर्मान्न चलितं, पुनस्ताभ्यां नैमित्तिकरुपं विधाय तस्मै साधवे प्रोक्तं, भो * साधो ! आवां ज्ञानिनी नैमित्तिको स्वः, अधुनापि तवायुर्वहु वर्त्तते, अतो यौवनवयसि किमर्थं तपः करोति ? नानाश्रृंगाररसादियुतान् भोगान् । म भुक्ष्व, अधुनैवैवंविधं कांचनसदृशं शरीरं तपसा त्वया कथं शोप्यते ? एतन्न युक्तं, वृद्धत्वे त्वया चारित्रं ग्राह्यं, तदा मुनिना प्रोक्तं-यदि ।
ममायुर्दीधमस्ति तदाहं बहुकालं चारित्रं पालयिष्यामिः धर्म च करिष्यामि, शरीरं च मे तेन निर्मलं भविष्यति, किं च यौवनवयो बिना धर्मोऽपि न भवति, वृद्धत्वे किं स्यात् ? शरीरे जर्जरीभूते सति क्रियातप आदि किमपि न भवति. धन्यं मम भाग्य, येन मे चारित्रोदयो जातः, एवं * चतसृभिः परीक्षाभिः परीक्षितोऽप्यसौ यदा न चलितस्तदा तौ देवी हृष्टी श्रीजिनशासनस्य प्रशंसां चक्रतुः, इति ताभ्यां जैनधर्मिमुनिपरीक्षा * कृता.
PREET