SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 美 | अथ श्री सुभूमचक्रवर्ति कथा ॥9॥ सुभूमचक्रवर्ति कथा ॥9॥ जो घायइ सत्ताई। प्रलियं जपेई परधनं हरइ॥ परदारं चिय वच्चइ । बहुपावपरिग्गहासत्तो ॥१॥ चंडो माणी कुन्दो । मायावी निहरो खरो पावो ॥ पिसुणो संगहसीलो । साहूणं निंदओ अहमो ॥२॥ आलप्पालपयंपी। सुदुहबुन्दी य जो कयग्यो य ॥ बहुदुक्खसोगपउरो । मरिलं नरयंमि सो याइ ॥३॥ व्याख्या - यो जीवः सत्वान् मारयति पुनरसत्यवचनं वदति, पुनरदत्तं वस्तु यो गृह्णाति, पुनः परदारेषु गमनं करोति, पुनर्बहु-परिग्रहं । मेलयति, पुनर्यश्चंडो-भयंकरो, मानी-अहंकारी, क्रुद्धो-मायावी, निष्ठुरः, खरः, कठोरचित्तः, पापी, पिशुनोऽसंगशीलः-कुसंगकृत्, साधूनां * निंदकः, अधर्मी, असंबद्धवचनप्रजल्पकः, दुष्टबुद्धिः, च पुनर्यः कृतघ्नो भवति स बहुदुःखप्रचुरोऽत्यंत दुःखी सन् मृत्वा नरकं याति, यथा ** ** अष्टमश्चक्रवर्ती सुभूमो महापापतः सप्तमं नरकं गतः तस्य प्रबंधमाह - वसंतपुरसमीपे एकं वनं वर्त्तते, तत्र वनाश्रमे जमदग्निस्तापसस्तपः करोति, स सर्वत्र जनपदेषु प्रसिद्धोऽभूत्. इतो देवलोके द्वौ मित्रदेवौ स्तः, एको वैश्वानरनामा देवो महाश्राद्धधर्मो जिनभक्त्तिवचनरक्तः, द्वितीयश्च धन्वन्तरिनामा देवो महाशैवधर्मी तापसर्द्धिभक्त्तश्च, द्वावपि **तावात्मीयं धर्म प्रशंसतः, एकेनोक्तं, श्रीजैनसदृशः कोऽपि धर्मो नास्ति, द्वितीयेन चोक्तं शैवधर्मसदृशोऽन्यो धर्मो न, द्वावपि वादं कुर्वतौ 中史必生好中中中中中中中中中中中中中中中中
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy