________________
स्कंदका चरित्रं
॥७॥
॥७॥
एवमेषु मुनींद्रेषु, सिद्धि प्राप्तेषु भावतः ॥ एकः क्षुल्लस्तथा सूरिः, संप्राप्ताववशेषतां ॥६६॥ यंत्रे क्षुल्लमपि क्षेप्तुं, ततो लाति पुरोहिते ॥ सूरिरूचे क्षुल्लमोहा-क्रांतस्तं च पुरोहितं ॥६७।। गृहाण क्षुल्लमेनं त्वं, पश्चात्याग्मां निपीड्य च ॥ प्रभवामीक्षितुं दृष्ट्या, नाहमस्य हि वेदनां ॥६८॥ बालोऽयं घात्यमानोऽस्य, पुरो दुःखकरो भवेत् । कामं पुरोधास्तं पूर्व, यंत्रे क्षुल्लमपीडयत् ॥६९॥ क्षमायुक्तः स धैर्येण, क्षिप्तकर्मा लघुर्मुनिः ॥ केवलज्ञानमासाद्य, निर्वाणं प्राप तत्क्षणात् ॥७॥ सिद्धार्थाः पीडिता लोके, खलरूपा भवंत्यहो । पीडितास्ते तु सिद्धार्था-चित्रं जजुर्महोत्तमाः ॥७॥ बालमप्यमुचद्यो न , दुरात्मायं स कीदृशः । इति कोपात्परीणामः, सूरेस्तस्याऽशुभोऽजनि ॥७२॥ पीड्यमानस्ततवके, निदानं बहुकोपतः ॥ सदेशभूपपूर्लो कपालकज्वालनाय सः ॥७३॥ दुःकर्मण्यत्र संजाय-माने प्रातरभूद् भृशं ॥ सूर्येणाऽप्रभुणैवैतद्, द्रष्टुमभ्रावृत्तिर्दधे ॥७॥ सर्वा अपि दिशो जाता, रजोभिः कलुषा भृशं ॥ बभ्रमुः पिशिताहाराः, खे च सर्वे विहंगमाः ॥७॥ गुरोर्धर्मध्वजं तेषा-मेका शकुनिका भुवि । पतितं नृकरभ्रांत्या, ललो रक्ताक्तमादरात् ॥७६।। समुत्पतंती सा भूप-प्रेयसीमंदिरोपरि ॥ आगाद्यावन्मुखात्ताव-द् गुरोर्धर्मध्वजोऽपतत् ॥७७॥