________________
स्कंदका
चरित्रं
॥ ६ ॥
管
##
ततो हृष्टमना हार्द - स्फोटकान् स्फेटयाम्यहं ।। प्राक्त्तनानिति स ध्यायन् पुरोधाः सुभटैर्वृतः ॥५४॥ परमाधार्मिकसमः, पुरो धावन्निरागसः ॥ मुनींस्तांस्त्रिजगत्पूज्यान्, वधस्थानमथानयत् ||५५ | | | युग्मं । त्रासयन् विपरीतात्मा, त्रिजगत्सुहृदो मुनीन् । यथा यथा व्यथयति, मोदते ते तथा तथा ॥५६॥ स्कंदकाचार्यमाहेति, पालको ब्राह्मणाधमः ॥ यत्त्वया मे तदाकारि, पक्षोच्छेदः स्वपर्षदि ॥ ५७॥ पक्षोच्छेदमनूचानः, करिष्येऽद्य तवाप्यहं ।। क्षमामेवाभजत् सूरिः, कठोरमिति भाषिते ॥ ५८ ॥ क्रमात्पापात्मनां धुर्यः, पालकस्तान् मुनीश्वरान् ॥ तिलयंत्रेऽक्षिपद् घोरे, धिग् धिग् निर्दयतामरे || ५९ ॥ नान्यथास्याज्जिनेंद्रस्य, वाक्यमेवं विचिंतयन् । अशिक्षयन्निजान् शिष्यान् स्कंदकार्यः क्षमामिति ॥ ६०॥ सत्क्षत्रवंशजा यूयं, हंहो धीरास्तपोधनाः ।। कुरुध्वमद्य यूयं तु युद्धं भावारिभिः सह ॥ ६१|| तत्क्षमध्वं कृतां घोर-वेदनाममुना भृशं । संख्यातीता यतः सोढा, वेदना नारके भवे ॥ ६२॥ मुहूर्तमात्रजैः कष्टै र तामर्थ्य ताम हो । अनंत सुखसंपत्ति-मयी मुक्तिरनुत्तरा ॥६३॥ गुरोः सम्यगिमां शिक्षां, श्रुत्वाधिकमनोबलाः ॥ सोढुं तां वेदनां यंत्र - पीडोत्थां मुनयोऽभवन् ॥६४॥ आरूढाः क्षपकश्रेणिं, निःश्रेणिं मुक्तिवेश्मनः । ते सर्वेऽप्यभवनंत - कृतके वलिनस्तदा ।। ६५ ॥
६ ॥६॥