SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्कंदका चरित्रं ॥५॥ ॥ ५ ॥ भवद्राज्यजिधृक्षायै, शृणु भूपैष सूरिराट् ॥ अप्रभु चरितुं घोरं, व्रतकष्ट मिहागमत् ॥४२॥ सहस्रयोधिनोऽस्यैते, शिष्या ह्येष महाभटः । षट्त्रिंशदायुधधरा, निश्येकांतेऽखिला अपि ॥४३॥ यदा तदावकाशं ते, विश्वस्तस्य गुणैरयं ॥ ग्रहीष्यति निहत्य त्वां, साम्राज्यमिति निर्णयः ॥४॥ राजा पुरोहितं प्राह, दृश्यते ह्येषु केवलः ॥ धर्मस्याडंबरः प्रौढः, किंतु नास्त्रपरिग्रहः ॥४५॥ जगौ पुरोहितः स्वामिन्, यद्वचः प्रत्ययो न मे ॥ निजांस्तत्र जनान् प्रेष्य, परीक्षां कुरु सत्वरं ॥४६॥ नरेंद्रश्चकितश्चित्ते, किंचित्तद्वाक्प्रतीतये ॥ शिक्षां दत्त्वा रहः कांश्चि-नरानप्रेषयद् द्रुतं ॥४७।। तेषु साधुषु कुर्वत्सु, निद्रां कृत्वा च पौरुषीं, ॥ शस्त्रावलोकनं चक्रु - स्ते नरास्तत्र सर्वतः ॥४८॥ कर्षितानि भुवस्तानि, शस्त्राण्यादाय सत्वरं ॥ भूपस्यग्रेऽमुंचनेते, संयुक्ताश्च पुरोधसा ॥४९॥ प्रत्ययं प्राप्य तद्वाक्ये, शस्त्राण्यालोक्य भूपतिः ॥ अतितीव्रतरक्रोधा-रुणास्यस्तत्क्षणादभूत् ॥५०॥ हुं हुं मां मारयिष्यंति, क्रूराः पाखंडिनो ह्यमी ॥ मम राज्यं ग्रहीष्यंति, एषां वार्ता महत्यहो ॥५१॥ दवाग्निवज्ज्वलन्नेव, दंडकाग्निरिति ब्रुवन् । पुरोधसं दुरात्मानं, निर्विचारो दिशे दिति ॥५२॥ मुनयोऽमी दुरात्मान-स्तुभ्यं दत्ता मयाधुना । स्वेच्छया निग्रहं दुष्टा-त्मनां कुरु ततो द्रुतं ॥५३॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy