________________
स्कंदका चरित्रं
॥ ४ ॥
६
यदि चाराधका एते, तदभूत्तच्छुभं फलं ॥ ममेत्युक्त्वा प्रणम्येशं, सूरिः साधुयुतोऽचलत् ॥३०॥ कुं भकारक टोपांत स्थितग्रामे स आगतः । तदागमनवार्ताऽगात्, पुरे तत्र तदाखिले ||३१|| तदासौ पालको दध्यौ श्रुतश्रीस्कंदकागमः । तिरस्कारं दधत् प्राच्य मरिमुक्तेषुवद् हृदि ||३२|| विगोपितस्तदानेन, स्वस्थानबलमाप्य यत् । विस्मृतं मेने तत्तस्य, सांप्रतं दर्शये फलं ॥३३॥ कालेनाकार्पित इव, प्रायोऽस्त्य समागतः ॥ तद्भव्यमभवत् किंचित्, करिष्ये मम वांछितं ॥ ३४॥ विचिंत्येति स दुष्टात्मा, वने तत्सूरिभूषिते ।। अगोपयदनेकानि शस्त्राणि निजपूरुषैः ||३५|| श्रीस्कंदकागमनं प्रातः, श्रुत्वा तन्नगरीजनः । तत्रैवोद्यानदेशेऽगा-द्वंदितुं भूरिभक्तितः ।। ३६ ।। उद्यानपालतो मत्वा, स्वेष्टं सूरिसमागमं ॥ राजा राज्ञीयुतः प्राप, गुरुवंदनहेतवे ॥ ३७॥ व्याजहार तथा धर्मं, जिनोक्तं तत्र सूरिराट् ॥ कोमलैर्वचनैः सर्वो, जनस्तुष्टिमगाद्यथा ॥३८॥ ततो व्याख्यां निशम्योर्वी - पतिः प्राप्तः स्वमंदिरं ॥ श्रीस्कंदकगुरून् हृष्टः, प्रशशंस पुनः पुनः ॥३९॥ स लब्धावसरः क्ष्मापं, निश्येकांते पुरोहितः ॥ दुरात्मेदमभाषिष्ट, पात्रं दुष्टधियामहो ||४०|| इमे कुसाधव: क्ष्माप ! किं वर्ण्यते पुनः पुनः ।। स्वाम्येषां दोष्टवं हार्दं, न जानात्यतिदौःस्थ्यतः ॥४१॥
॥ ४ ॥