________________
स्कंदका
॥३॥
विधिनाऽऽनम्य सर्वज्ञं, स्कंदकेन समं नृपः ॥ जिनस्याकर्णयामास, देशनां शिवसौख्यदां ॥१९॥ तां निशम्य समुत्पन्न - वैराग्यः स्कंदको द्रुतं ॥ सस्पृहोऽभूद् व्रतादाने, तदानीं च विशेषतः ॥२०॥ जिनं नत्वा ततो गत्वा, पित्रा सह निजं गृहं ॥ व्रतं ग्रहीतुकामः स-नपृच्छत्पितरावयं ॥२०॥ पितरावाहतुर्वत्सा-धुना त्वं वर्तसे युवा ॥ गृहाण राज्यमस्माक-मुचितं सांप्रतं व्रतं ॥२१॥ कामं भवभयोद्विग्नः, शिवार्थी स्कंदकः पुनः ॥ पित्रोर्वाक्यं नानुमेने, चारित्रे स्थिरवासनः ॥२२॥ पित्रोरनुमतिं प्राप्य, सुहृदां पंचभिः शतैः ॥ सह जग्राह चारित्रं, श्रीसुव्रतजिनांतिके ॥२३॥ विज्ञाताखिलसिद्धांतः, प्राप्याचार्यपदं जिनात् ॥ कतिचिद्वत्सरान् साधु, विजहे स्कंदकोऽर्हता ॥२४॥ प्राकर्मणान्यदा नुनः, स्कंदको भगिनीपतिं ॥ दंडकाग्निं वंदयितुं, कुंभकारकटे पुरे ॥२५॥ गंतुमुत्कंठितोऽनुज्ञा-मयाचत जगत्प्रभुं ॥ अभ्यधात्तमिदं स्वामी, त्रिकालज्ञानवांस्ततः ॥२६॥ युग्मं । प्राणांतकृत्परं तत्रो-पसर्गोऽस्ति तव ध्रुवं ॥ ततः संत्यज्यतां सौम्य, स्थानं क्लेशकरं किल ॥२७॥ प्राहासावेवमुक्तोऽपि, वयमाराधका न वा ॥ प्राणांते चोपसर्गेऽपि, प्रभो तस्मिन्नपागते ॥२८॥ स्वामी प्राह विमुच्य त्वां, सर्वेऽप्याराधकाः परे ॥ उक्तोऽप्येवं स नामुंच-द्भावित्वेन कदाग्रहं ॥२९॥