SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ स्कंदका चरित्रं ॥२॥ ॥ २ ॥ केनचिद्राज्यकार्येण, प्रेषितो भूभुजान्यदा ॥ राजपर्षदि संप्राप्तः, श्रावस्तीनगरी गतः ॥७॥ राज्ञोऽन्येयुः सभायां स, पुरोधाः समलाशयः ॥ निनिंद जिनधर्मं श्रीकुमारे तत्र शृण्वति ॥८॥ कुतीर्थिकजनप्रोक्त-हेतुपोतप्रभंजनैः ॥ युक्तैर्वचो भिरेतस्य, स्कंदकः पक्षमच्छि दत् ॥९॥ अंतः कोपाकुलो दातुं, प्रत्युत्तरमथाप्रभुः ॥ बहिः स्मितमुखोऽशंसत्, वचः स्कंदकभाषितं ॥१०॥ कार्यं कृत्वात्र भूपस्य, गते स्थानं पुरोधसि ॥ दध्याविति कुमारेंद्र-स्तत्त्ववित् स्कंदकाभिधः ॥११॥ हार्यते हा प्रमादेन मानुषं जन्म दुर्लभं ॥ मुधा मयेष्ट फलकृत्, दक्षिणावर्त शंखवत् ॥१२॥ प्रागल्पसुखदाः पश्चादसंख्यदुःखदायिनः ॥ किंपाकफलवद्भोगा, बुधैर्नित्यममी मताः ॥१३॥ असारं खलु संसारं, तत्परित्यज्य सत्वरं ॥ गृह्णाम्यनंतसुखदं, व्रतं श्रीसुव्रतांतिके ॥१४॥ पुण्यान् मनोरथानेवं, कुमारेऽस्मिन् प्रकुर्वति ॥ विहरंस्तां पुरीं प्राप, प्रातः श्रीसुव्रतो जिनः ॥१५॥ क्रीडोद्याने विरचयांचवे संमदमे दुरैः ॥ देवैः समवसरणं, स्वामिनो मुक्तिगामिनः ॥१६॥ अवीवृधन्नृपं गत्वा, सत्वरं वनपालकः ॥ श्रीसुव्रतजिनाधीशस्यागमे नातिभक्तिमान् ॥१७॥ श्रुत्वा भूमिपतिः पुत्रा-वरोधानीकसंयुतः ॥ समागाद्वंदितुं क्रीडो-द्याने श्रीसुव्रतं जिनं ॥१८॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy