________________
स्कंदका
॥श्री जिनाय नमः॥ ॥श्री प्रेम-भुवनभानु-पद्म-सदगुरुभ्यो नमः॥ ॥ अथ श्री स्कंदकाचार्यचरित्रं प्रारभ्यते॥
(कार्ता - श्री शुभवर्धनगणी)
चरित्रं
॥१॥
॥१॥
श्रावस्तीति सुविस्तीर्ण - सुकृतात्रास्ति पूर्वरा ॥ जना वितमसो यत्र, प्रासादाच मणिमयाः ॥१॥ सुविख्यातयशास्तत्र, जितशत्रुर्नरेश्वरः ॥ तस्य भूमिपतेः शील-धारिणी धारिणी प्रिया ॥२॥ तयोर्दक्षः स्कंदकाख्यः, कुमारः सारविक्रमः ॥ युवराजश्रियं भुंजन्, जैनधर्मरतोऽभवत् ॥३॥ स्वसा कनीयसी तस्य, पुरंदरयशाऽभिधा ॥ चतुःषष्टिकलोपेता, रूपसौभाग्यशालिनी ॥४॥ दंडकाग्निनरेंद्रस्य, कुंभकारकटप्रभोः ॥ सा दत्ता पट्टराज्ञीत्वं, प्राप्ता सौभाग्यभाग्यभूः ॥५॥ दंडकाग्निमहीभर्तु-मिथ्यादृष्टिः पुरोहितः ॥ पालकाख्यो जैनधर्म-द्वेषी विद्याभिमानभृत् ॥६॥