________________
श्रीअगडदत्त चरित्रं
कथमुद्वेजयेदिति १ ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? || ११|| अनाचारा न ये स्वप्नेऽप्यभवन् भवतां पुरे । ते सर्वेपि तदाचार्यै-णेवानेन प्रवर्त्तिताः ||१२|| न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्नि-रिवान्यायो ह्युपेक्षितः ||१३|| इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ।। मर्यादाजलधिर्भूयः कोपाटोपाददोवदत् ||१४|| अरे ! कुमारं वदत, यन्मे देशाद् ब्रज द्रुतम् ॐ ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा || १५ || पुत्रोप्यन्यायकृन्न्याय - तत्परैः परिहीयते । न हि कर्णापहं स्वर्णं, केनापि परिधीयते ॥ २ ॥ ॐ ॥ १६ ॥ इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ।। खड्गपाणिरहङ्कारा - त्कुमारो निरगाद्बहिः || १७ ।। उल्लङ्घयाद्रिसरिद्ग्राम- पुरारण्यानि ॥ २ ॥ " भूरिशः ।। गङ्गाजलाप्लुताभ्यण, पुरीं वाराणसीं ययौ ॥ १८॥ स चापरिचितयत्वेन, केनाप्यविहितादरः ।। बभ्राम विमनास्तत्र, यूथभ्रष्ट " इवैणकः ।। १९ ।। भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ।। कृपावन्तं पापभीरुं, गम्भीरमुपकारिणम् ||२०|| रथाश्वगजशिक्षाश्व, शिक्षयन्तं नृपाङ्गजान् ।। क्वचित्पवनचण्डाख्यं, कलाचार्यं स दृष्टवान् ||२१|| [ युग्मम् ] तं च प्रेक्ष्य कुमारोऽन्त-रविन्दत परां मुदम् । निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ||२२|| अमुं कलाचार्यरविं प्रतिभाभानुभासुरम् ।। श्रये तमोऽपनोदार्थ - मिति चान्तरचिन्तयत् ॥२३॥ तत्पादकमले नत्वो- पाविशच्च तदन्तिके । कुतस्त्वमागा इति तं कलाचार्याऽपि पृष्टवान् ||२४|| एकान्तेऽथ तमाहूय, कुमारश्वरितं निजम् || जगाद सकलं सत्य - मित्यूचे च कृताञ्जलिः ||२५|| स्वामिन् ! दुर्मतिना क्रीडा - रतिना मयका पुरा ।। कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ||२६|| चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः ॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ॥२७॥ ततोऽलपत्कलाचार्य:, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ||२८|| किन्तु त्वया स्ववंशादि - प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो - र्नास्ति तुष्टिर्मिथो यतः ॥ २९ ॥ कुमारोऽपि वचस्तस्य तत्तथा प्रत्यपद्यत । ततस्तं सार्धमादाय, निजं धाम जगाम सः ||३०|| भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च । जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ ३१ ॥ ततः सा १ मृगकः । २ अकूपार समुद्रः । ३ प्रतिभा बुद्धिः नवनवोन्मेषशालिनी ।
9890001