________________
KE पुण्यसारस्तु सकौतुकोऽपि तद्देवतावाक्यमसंशयमेव स्वचित्ते मेने. अथ सा गुणसुंदरी पतिवियोगदुःखिता कापि निजकांतमलभमाना कस्याप्यग्रे र स्वं मानसिकं स्वरूपमकथयंती षण्मासीमतिक्रम्य परिपूर्णेऽवधौ स्वां प्रतिज्ञां पूरयितुं पुराबहिः काष्ठैश्चितां कारयित्वा जनैर्वार्यमाणापि
ज्वलितानले प्रवेष्टुं चचाल. श्रीपुण्यसार तदा सकलेऽपि पुरे ईदशी वार्ता बभूव यदयं बालोऽपि सार्थेशः केनापि वैराग्येण वहिप्रवेशे कर्तुकामोऽस्ति. इतश्च नृपेण तं समाचार
चरित्रं ज्ञात्वा पुरंदररत्नसारपुण्यसारादिपौरजनेन सह तत्रागत्य तस्येति कथितं, भो ! किं केनापि तवाज्ञा खंडिता ? वा केनापि त्वदीयं किंचिद्वि॥ ८ ॥ नाशितं ? यत्ते दुःखकारणं भवेत् तत्कथय ? ततो रत्नसारेणोक्तं, भो ! यदि मम मे पुत्र्या वा कोऽप्यपराधो भवेत्तर्हि कथय, तेनेत्युक्त
साऽब्रवीत्, कस्याप्यपराधो नास्ति, केनापि मदीयं किंचिदपि गृहीतं नास्ति, परमिष्टवियोगं वितन्वता दुष्टदैवेनाहं दंडितोऽस्मि, अतो दुःखदग्धस्य मे बहिरेव शरणं, इति जल्पंती निःश्वासान् मुंचंती यावत्सा चितासमीपं ययौ तावत्पुरः स्वामिना प्रोक्तं, यः कश्चिदस्य परमाभीष्टो भवति तेनायं संबोध्यास्मान्मृत्युसाहसाद्रक्षणीयः. तदा पौररित्युक्तं, एतस्य पुण्यसारेण सह मैत्री वर्तते. इति वचो निशम्य राज्ञा पुण्यसारस्य समादिष्टं, तदा स पुण्यसारो नृपादिष्टः सन् तन्निकटे गत्वा तं प्रतीति वभाषे, भो मित्र ! तव तारुण्यवयःस्थितस्य
धनाढयस्य च दुःखकारणं ममाऽकथयित्वैव मरणं न युक्तं. तदा साऽवदद्यस्याग्रे दुःखानि कथ्यते स कोऽपि न दृश्यते. तदा पुण्यसारेणोक्तं, ... भो मित्र ! तवानया चेष्टया त्वं समस्तनराणामुपहासास्पदं भविष्यसि. तेनेत्युक्ते तया तं पुण्यसारं समुपलक्ष्य स्मितं विधाय तल्लिखितं
श्लोकं निगद्येति प्रोचे, अयं श्लोकः किं भवता लिखितो न वा ? तदा तेनोमिति भणिते सा जजल्प, अहं सैव तव प्रिया, या त्वया X. तोरणद्वारे मुक्ताभूत्, गुणसुंदरीति च मन्नाम, हे कांत ! समग्रोऽप्ययं प्रयासस्तवैव हेतवे मया चक्रे. अथ प्रसादं विहाय मम त्वं शीघ्रमेव .. K. स्त्रीवेषं समर्पय, तयेत्युक्ते साश्चर्येण पुण्यसारेण स्वगृहान्मनोरमं नारीवेषं समानाय्य तस्यै प्रददे, तदा सा तं वेषं परिधाय स्वरूपेण प्रकटीबभूव,
ततः पुण्यसारेण नरेंद्रादिपूज्यवर्गस्येत्थं निगदितं, इयं वधूभवद्भ्यो बंदते, ततः सा गुणसुंदर्यपि नृपं तथा श्वश्रूश्वशुरौ च नमश्चक्रे. तदा