SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ चरित्रं मम नरवेषं समर्पय यतो महासार्थयुताहं पुरुषवेषेण तत्र गत्वा विलोक्य च तं निजं कांतं षण्मासमध्ये प्रकटीकरोमि, अथवा बहिरेव नः शरणं. तयेत्युक्ते पित्रार्पितं नृवेषं समाश्रित्य महासार्थयुता सा कियद्भिर्दिनैर्गोपालयपुरं ययौ. तदा तत्रेति प्रसिद्धिर्जाता यद्गुणसुंदराख्यः कोऽपि सार्थेशसुतोऽत्र समेतोऽस्ति. अथ पुंवेषधारिणी साऽपूर्वं ढौकनं गृहीत्वा नृपसभायां गता, नृपेणापि बहुमानिता. ततः सा तत्र श्रीपुण्यसार स्थिता क्रयविक्रयादि व्यापार करोति स्म. क्रमेण तया तेन पुण्यसारेण सह मैत्री मंडिता. अथ पुरमध्ये तदीयैवं ख्यातिरभूत, यो गुणसुंदराहवयो वणिक्कुमारो वल्लभीपुर्याः समागतोऽस्ति, स विद्वान् रूपवान् गुणवांश्च वर्तते, तत्तुल्यं रूपविचक्षणत्वादि च नापरस्य विलोक्यते. एवंविधां तत्प्रशंसां श्रुत्वा सा रत्नसुंदरी स्वजनकं प्रतीति जगाद, हे तात ! मयायं गुणसुंदरकुमारः परिणेतव्यः. तयेत्युक्ते पित्रा तद्भावं विज्ञायं तत्समीपं गत्वेति निगदितं, भो कुमार ! मत्सुता रत्नसुंदरी त्वां भर्तारं समीहते. तेनेत्युक्ते सा स्वचित्ते ब्यचिंतयत्, एषा वांच्छा निरर्थका, यत उभयोः स्त्रियोर्गृहवासः कथं भवेत् ? अतस्तां कमप्युत्तरं दत्त्वा वारयामि. अथवा या मम साऽस्या अपि गतिर्भविष्यति, इति ध्यात्वा सा तं श्रेष्ठिनं प्राह, अस्मिन्नर्थे कुलीनानां पित्रोरेव प्राधान्यं, मदीयौ च तो पितरौ दूरे वर्तेते, ततस्त्वयेयं कन्यान्यस्य कस्यापि समीपस्थवरस्य देया. इति तद्भाषितं श्रुत्वा पुनरपि रत्नसारः श्रेष्ठी प्रोचे, भो कुमार ! मत्पुत्र्यास्त्वय्येव वल्लभत्वमस्ति, अतः सान्यस्मै पुरुषाय मया कथं दीयते १ यतः-शत्रुभिर्वधुरूपैः सा । प्रक्षिप्ता दुःख-सागरे॥ या दत्ता हृदयानिष्ट-रमणाय कुलांगना ॥१॥ एवं तस्य महाग्रहेण सा तद्विवाहमनुमेने. ततः श्रेष्ठिना शुभवासरे तयोर्विवाहश्चक्रे. अथ पुण्यसारस्तं समाचारं समाकर्ण्य स्वकुलदेव्याः पुरश्छुरिकया स्वकीयं शिरश्छेत्तुमारभत, तदा सा प्रकटीभूयोवाच, भो ! कथमिदं त्वं साहसं करोषि ? तयेत्युक्ते स प्राह, मद्वांछितां कन्यामन्यः पुमान् परिणीतवान्, अथ मम जीवितेन किं ? तेनेत्युक्ते तया भणितं, हे वत्स ! या कन्या मया तव दत्ता सा तवैव भविष्यति, वृथा मरणसाहसं मा कुरु पुनः पुण्यसारोऽवदत् परस्त्रीसंगमो मम कर्तुं न युज्यते, इयं तु परिणीतैव, अथ मया किं कर्तव्यं ? इति श्रुत्वा सा पुनराख्यत्, Xहे वत्स ! सांप्रतं बहुना प्रजल्पितेन किं ? परंतु निश्चयेनैषा न्यायवृत्त्यैव तव प्रिया भविष्यति. इति निगद्य सा देवता स्वस्थानं गता...
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy