________________
K मुक्तः इतः स पुरंदरश्रेष्ट्यपि पुरे भ्रांत्वा पुत्रमविलोकयन् रात्रिपर्यंतेऽतिश्रांतः सन् यावत् तत्र समाययौ तावत्प्रभातसमयं विज्ञाय पुण्यसारोऽपि
वटकोटरादहिर्निःसृत, इतोऽलंकारादिभिरलंकृतं स्वपुत्रं दृष्ट्वा सविस्मयः श्रेष्ठी वत्स वत्सेति जल्पस्तं समालिंगति स्म. ततस्तेन सी
R: स्वगेहमानीतः, श्रेष्ठिन्यपि तो द्वावपि समागतौ दृष्ट्वा हृष्टा. ततः पितृभ्यां स्नेहपूर्वकं तं स्वोत्संगे निवेश्य समालिंग्य च पृष्टं, हे वत्स श्रीपुण्यसार ए ! तवेदृशी शोभा क संजाता ? तदा स पुण्यसारः पित्रोरग्रे विस्मयकारिणी समग्रामपि स्वकीयां कथां कथयामास. तदानीं मातापितरौ र चरित्रं साश्चयाँ तत्कथां श्रुत्वेत्यूचतुः, अहो सुतस्य कीदृशं भाग्यमस्ति ? येन रात्रिमध्ये ईदृशी महर्द्धिलब्धा, पुनर्जनको बभाण, भो वत्स !
मया रोषवशात्तव यत् किमपि दुर्वाक्यं शिक्षार्थ कथितं, तत्त्वया क्षतव्यं. तेनेत्युक्ते पुण्यसारोऽप्याह, हे तात ! भवदीया शिक्षा मम E सुखंकरी जाता, यदुक्तं- अमीयरसायण अग्गली । माय ताय गुरु सीस ॥ जे उ न मन्नइ बप्पडा । ते रुलीया निसदीस ॥१॥ इत्युक्ते
पितरौ प्रहर्षितो. ततस्तेन पुत्रेण लक्षमूल्यं स्वविभूषणं यूतकाराणां दत्त्वा नृपविभूषणं च पश्चाद् गृहीत्वा भूपस्य दापितं. ततःपरं स पुण्यसारः सर्वगुणनाशनं द्यूतव्यसनं परित्यज्य सारं हट्टव्यापार व्यधात्. इतश्च स्वकांते नायाते ततो वलित्वा गुणसुंदर्या षण्णामपि निजवृद्धभगिनीनां
निगदितं, बही वेलाभूत् परमद्यापि स नायातः, तीत्थं ज्ञायते यद्देहचिंताया मिषतः स कापि गतः. तयेत्युक्ते ताः सर्वा अपि सदुःखा EM रुरुदुः. तासां रुदनं श्रुत्वा पित्रा तत्कारणं पृष्टं, तावत्ताभिरुक्तं, स नः पतिः कापि ययौ. जनकेनोकं, अपरिज्ञातपारंपर्यो स निजपतियुष्माभिः
संभूय कथं न धृतः, मनोरमाभिः स्त्रीभिस्तु सर्वोऽपि जनो विलोभ्यते, तेन च यूयं प्राप्ता अपि कथं परिहृताः ? यद्यंगलग्नं विभूषणं समादाय स गतस्तदैवं ज्ञायते स कोऽपि व्यसनी भविष्यति. यदि देवतादत्तो भतवं चकार, तर्हि नूनमयं भवत्पूर्वकृतकर्मणामेव दोषः, किं च भवतीभिर्वार्ता कुर्वतीभिः किमपि तदीयमभिधानं स्थानं ज्ञातं वा न ? ईदृशं पितृवचः समाकर्ण्य गुणसुंदरी प्रोवाच, तदा दीपोद्योतेन
गच्छता तेनात्र भारपट्टे किमपि लिखितं, परं मया तद्वाचितं नास्ति. ततः प्रातस्तल्लिखिताक्षराणि वाचयित्वा सा प्राह, हे तात ! K सोऽस्मत्पतिर्गोपालयपुरे गतः, केनापि दैवयोगेन स रात्रिमध्ये इहागत्यास्मांश्च परिणीय पुनस्तत्रैव गतः. अतो हे तात ! स्वहस्तेन त्वं