SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ या हुंकृतिपूर्वक ततः प्रचलतः स्वजनं च सार्थे गृह्यते. तदा वटकोटरमध्यस्थपुण्यसारोऽपि तद्वचः समाकण्येति दध्यौ, अहो ! ममापि प्रासंगिकं कौतुकविलोकनं भविष्यति, इति विचिंत्य यावत्स प्रमुदितस्तावत् ताभ्यां हुंकृतिपूर्वकं स वटपादप उत्क्षिप्तः, क्षणांतरेण च वल्लभपुर्या उद्याने गत्वा स स्थितः. ततस्ते देव्यौ नारीरूपं कृत्वा ततः प्रचेलतुः. पुण्यसारोऽपि वटकोटरानिःसृत्य तत्पृष्टे चलति स्म. अथ लंबोदरगृहद्वारे मंडपं कृत्वा वेदिकां च रचयित्वा श्रीपुण्यसार स्वजनं च संमेलयित्वा कन्यासप्तकसहितः श्रेष्ठी यावत्तत्र स्थितोऽस्ति तावन्नारीद्वयपुष्ठे समागच्छन् स पुण्यसारस्तेन दृष्टः, ततः प्रवरासने चरित्रं सतं निवेश्येति स जगाद, भो भद्र ! लंबोदरेण त्वं मम जामाता समानीतोऽसि, अत एताः सप्तापि मम कन्यास्त्वं परिणय ! इति । निगद्य तेन वरवस्त्रपरिधापनपूर्वकं सलक्षमूल्यभूषणेन समलंकृतः, ततो धवलमंगलेषु जायमानेषु वह्निसाक्षिकं शुभवेलायां तेन ताः सप्तापि चारुकन्याः परिणीताः, तदा स्वचित्ते स दध्यावहो ! पित्राहं निर्वासितस्तद्भव्यं जातं, अन्यथैवं मम पुण्यस्फीतिः कथं प्रकटीभवेत् ? इति ध्यायन् स श्रेष्ठिना तासां पाणिग्रहणं कारयित्वा समहोत्सवं स्वगृहे नीतः. अथावासभुवने प्राप्तं तं ता वल्लभाः पृच्छंति स्म, हे नाथ ! तव कलाभ्यासः कियान्विद्यते ? तदा सोऽब्रवीत्, हे मुग्धाः ! ममेष्टकराः कला न, यत उक्तं - अत्यंतविदुषां नैव । सुखं FDMR मूर्खनृणां न च ॥ अर्जनीयाः कलाविद्भिः । सर्वथा मध्यमाः कलाः ॥१॥ एतस्य श्लोकस्यार्थमविदंत्यो यावत्ता विमर्शनं कर्तुं लग्नास्तावत्स पुण्यसारः स्वचित्ते दध्यौ, स वृक्षो यास्यति, अतोऽत्र विलंबो न विधेयः. इति विचिंत्य यावत्स दिगवलोकनं करोति तावत्तासां कनिष्ठया गुणसुंदर्या गदितं, स्वामिन् । किं ते देहचिंताशंकास्ति ? तथेत्युदिते स प्राह, एवमेव. ततोऽसावधोभूमौ समागत्य स्वज्ञापनाय भारपट्टे खटिकयैवं श्लोकमेकं लिखति स्म, तद्यथा - गोपालयपुरादागां । वल्लभ्यां दैवयोगतः ॥ परिणीय वधूः सप्त । पुनस्तत्र गतोऽस्म्यहं ॥१॥ इति श्लोकं लिखित्वा यावत्सर्वाः पूर्वकथितश्लोकार्थमजानंत्यो लज्जमानाः स्थितास्तावद् गृहद्वारे गत्वा तेन गुणसुंदर्याः कथितं, त्वं मध्ये ब्रज यथा मम सुखे न देहचिंता स्यात्. तेनेत्युक्ते सापि भर्तृनिराबाधहेतवे . गृहमध्ये गता. अथ स तत्रैव वटे गत्वा यावत्तत्कोटरे प्रविष्टस्तावत्ते देवते अपि समागते, ततस्ताभ्यां स्वशक्त्या तं वटं समुत्पाटय तत्स्थाने ..
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy