________________
श्रीपुण्यसार
चरित्रं ॥९॥
विस्मितैर्नृपादिकैः पृष्टं, भो पुण्यसार! किमेतत्संजातं ? तदा तेन नृपाग्रे पौरजनसमक्षं सायंता विस्मयकारिणी स्वकीयकथा निगदिता, तदा सर्व:कोऽपि जनश्चमत्कृतः पुण्यसारस्य पुण्यं प्रशशंस. इतश्च रत्नसारश्रेष्ठिना नृपो विज्ञप्तः, स्वामिन् ! येन मत्पुत्री परिणीताभूत् स तु दैवयोगेन नारी बभूव, अथ मत्सुतायाः का गतिः ? तेनेति पृष्टे नृपोऽवादीत्, भो ! अत्र का पृच्छा ? सापि पुण्यसारस्यैव गेहिनी भवतु एवं नृपादेशं प्राप्य सा रत्नसुंदर्यपि 'पुण्यसारस्यैव वल्लभाऽभवत्, तथा वल्लभीपुरात् ताः सर्वा अपि वल्लभाः पुण्ययोगात् पुण्यसारस्य मंदिरे समाययुः. एवं तस्य पुण्यसारस्याष्टौ स्त्रियः संजज्ञिरे, सर्वोऽपि जनश्च तत्पुण्यप्रशंसां चकार. अथैकदा स्वदेशनया भव्यसत्त्वान् बोधयंतः श्रीज्ञानसागराख्याः सूरयस्तत्र समाजग्मुः तदा तद्वंदनाथ भक्तिभावेन पौरजनयुतः पुण्यसारसमन्वितश्च पुरंदरः श्रेष्ठी समाययौ. गुरूंश्च प्रणम्य तेनेति पुष्टं, हे प्रभो ! मत्सूनुना पुण्यसारेण पूर्वभवे किं सुकृतं कृतं ? तदा गुरवोऽप्यवधिज्ञानेन ज्ञात्वा तत्पूर्वभवसंबंधं प्रोचुः. भो श्रेष्ठिन् ! नीतिपुरे पुरा कश्चित्कुलपुत्रो बभूव, स संसारवासनिर्विण्णः सुधर्ममुनिसंनिधौ दीक्षां गृहीत्वा तदत्तां सुशिक्षां निरंतरं श्रृणोति. एकदा गुरुणोक्तं, भो ! आवश्यकखण्डनं त्वं कथं करोषि ? यतो व्रतभंगेन महान्दोषो भवति. तेनेत्युक्ते स भवभीतः कायगुप्तिमसहिष्णुर्वैयावृत्यं चकार. क्रमेण स समाधिना मृत्वा सौधर्मकल्पे त्रिदशत्वं प्राप्यायुःक्षये ततश्च्युत्वा हे श्रेष्ठिस्तवायं सुतोऽभवत्. समितिपंचकं गुप्तिद्वयं चेमाः सप्त प्रवचनमातरस्तेन सुखेनाराधिताः, ततस्तेन हेतुना सप्त प्रियाः सुखेन लब्धाः, अष्टमी कायगुप्तिर्दुखेन समाराधिता, तेनाष्टमी प्रिया दुःखेन संजाता. ततः कारणात् सुधिया धर्मकर्मणि सर्वथा प्रमादो न विधेयः । एवं निजपूर्वभवं श्रुत्वा . जातसंवेगः पुरंदरः श्रेष्ठी दीक्षा जग्राह, विवेकवान् पुण्यसारोऽपि श्रावकत्वं समाददे. तदनंतरं च पुत्रेषु जातेषु पुण्यसारोऽपि वृद्धावस्थायां दीक्षां प्रतिपद्य मृत्वा सुगतिभाग्बभूव। ।
इति पुण्यसारकथा सामाप्ता ॥