________________
॥ ३॥
श्रुत्वा पुरंदरो दध्यौ, अहो मम पुत्रस्यैतस्याः पाणिग्रहणाभिलाषो वृथैव, शैशवेऽपि यस्या वाण्येवंविधा कर्कशास्ति सा यौवनोन्मत्ता सती प्रियस्य कथं सुखदा भविष्यति ? पुरंदरः श्रेष्ठी यावदेवं चिंतयन्नस्ति तावद्रत्नसारेण भणितं, इयं मत्पुत्री मुग्धास्ति, वाच्यावाच्यं च किमपि
न जानाति, तदस्याः प्रजल्पितं मनसि नानेतव्यं. किंच हे श्रेष्ठिनहं तथेमां बोधयिष्यामि यथासौ त्वत्पुत्रं परिणेष्यति. इति श्रुत्वा पुरंदरस्ततः श्रीपुण्यसार समुत्थाय स्वगृहमागत्य पुत्र प्रत्यवादीत्, हे वत्स ! सा कन्या तब योग्या नास्ति, यतः - कुगतां विगतस्नेहां । लज्जाशीलकुलोज्झितां ॥ चरित्रं अतिप्रचंड दुस्तुंडां। गृहिणीं परिवर्जयेत् ॥१॥ पित्रेत्युक्ते पुण्यसारः प्राह हे तात ! यदीमां कन्यामहं परिणयामि तदाहं सत्यप्रतिज्ञो
भवामि, नान्यथेति निगय स बुद्धिमान् पुण्यसारस्तल्लाभायापरोपायं व्यचिंतयत्, तदैकवारं प्रतिवचनात् स्वकीयां कुलदेवीं सप्रभावां श्रुत्वा
शुभवासरे कुसुमनैवेद्यधूपविलेपनादिभिस्तां समभ्यर्च्य विनयतत्पर इति प्रार्थयामास, हे देवि ! यया तुष्टया श्रेष्ठिनः पुरंदरस्याहं पुत्रो दत्तः By:सा त्वं मम समीहितं चेन पूरयसि तहं कथं निर्मितः ? हे मातस्तदाहमतः स्थानादुत्थास्ये तदा च भोक्ष्ये, यदा त्वं मद्वांछितं पूरयिष्यसि.
एवं प्रतिज्ञायां कृतायामेकेनोपवासेन सा कुलदेवी तुष्टा प्रोवाच हे वत्स ! शनैः सर्व भव्यं भविष्यति. त्वं चिंता मा कुर्याः ? इत्युक्ते : हृष्टचित्तः सन् पुण्यसारः पारणकं कृत्वा जनकानुज्ञयाऽविशिष्टकलाभ्यासं विदधे, यावता कलाभ्यासं कृत्वा स संप्राप्तयौवनो बभूव तावता दैवयोगेन यूतक्रीडारतो बभूव, बल्लभत्वेन पितृभ्यां विनिवारितोऽपि स द्यूतव्यसनान निवर्तितः. एकदा लक्षमूल्यं नृपाभरणं श्रेष्ठिगृहान् गृहीत्वा लक्षे हारिते सति पुण्यसारेण यूतकाराणां प्रदत्तं. अथ कियता कालेन राज्ञा तदाभरणं याचितं, तदा श्रेष्ठिना तत्समर्पणाय स्थानकं
विलोकितं, किंतु तत्र नृपाभरणं न दृष्टं, तदा मनसि चिंतितं नूनमेतदाभरणं मत्पुत्रेण पुण्यसारेण गृहीतं भविष्यति. गुप्तस्थानस्थितं वस्तु । Kनापरः कोऽपि ग्रहीतुं समर्थः, तद्गतं ज्ञात्वा श्रेष्ठिना ध्यातं-यदर्थ खिद्यते लोकै-यत्नश्च क्रियते महान् ॥ तेऽपि संतापदा एवं । दुःपुत्रा
हा भवंत्यहो ॥१॥ इति विमृश्य पुनः श्रेष्ठिना चिंतितं नूनं तेन दुरात्मना कापि तदाभरणं यूतकारपार्श्वे हारितं भविष्यति, तस्मान्मयायं 3. पुत्रो गृहानिष्कासनीय एव, पुत्ररुपेणायं वैरी ज्ञेयः. एवं चिंतयित्वा स पुत्रसमीपे समागत्य नृपाभरणस्वरूपं पप्रच्छ, तदा तेन पुत्रेणापि
KAKEKREKKERLINE