________________
॥ ३ ॥
ॐ निर्गमयामि तदा कपिलया पृष्टं, स्वामिन् ! कोऽसौ गुणगणालयः सुदर्शनः श्रेष्ठी ? येन सह भवतामीदृशी मैत्री जातास्ति ? तत् श्रुत्वा मुग्धः कपिलद्विजोऽवदत्, हे प्रिये ! किं त्वया स सुदर्शनः श्रेष्ठी ज्ञातो वा दृष्टो नास्ति ? स तु रूपेण कंदर्पमपि जयति, ॐ बुद्ध्या वाचस्पतिमपि पराकरोति, तेजसा सूर्यमपि तिरस्करोति, शांतस्वभावेन चन्द्रमपि लज्जयति, विशेषतः किं वच्मि ? निजशीलगुणेन स सर्व सज्जन शिरोमणिरस्ति एवं विधात्रा कस्मिंश्विनिवृत्तिभाजि दिने स सर्वगुणसंपन्नो निर्मितोऽस्ति एवं ॐ तद्गुणगणश्रवणेनाविर्भूतमदनाभिलाषापि सा कपिला निजस्त्रीचरित्रचातुर्येण तामभिलाषां शमयंती निजस्वामिनं प्रोवाच. भो स्वामिन् ! 鸵 एवं गुणगणालंकृतस्य सज्जनोत्तमस्य तस्य सुदर्शनश्रेष्ठिनो भवतां मैत्री खलु प्रशस्यैव इत्युक्त्वा सा गृहकार्येषु प्रवृत्ता, परं तस्याश्चित्तं 榮 तस्य सुदर्शनश्रेष्ठिनः संगप्राप्त्यर्थं मदनसायक- बाणप्रहारैः सविशेषं विह्वलीभूतं गृहकार्येषु न लगति, यतः - स्मितेन भावेन मदेन लज्जया । ॐ पराङ्मुखैरर्धकटाक्षवीक्षितैः ।। वचोभिरीर्ष्याकलहेन लीलया । स्वानंगतामाविर्भावयंति याः || १ || एवं सुदर्शनश्रेष्ठिसंगं ध्यायंत्यां तस्यामन्येयुः कपिलः कस्मैचित्कार्या भूपतिप्रेषितो ग्रामांतरं गतः, अथ लब्धप्रस्तावा सा कपिला निजकुबुद्धिप्रेरिता सुदर्शनश्रेष्ठिनो गृहे गत्वा तदग्रे 鸵 प्रोवाच भो सुदर्शन ! त्वदीयः सुहृदय ज्वरेण पीडितोऽस्ति, तेन विह्वलीभूतमानसः स त्वां निजपरमसुहृदं मिलितुमिच्छति, तवागमनेन ७६ तस्य हृदि परमा शांतिर्भविष्यति, तेन तत्प्रेषिताहं त्वामाकारयितुं समागतास्मि अतस्त्वमविलंबं तत्र समागच्छ, ज्वराभिभूतं तं त्वदीयमित्रं 骆 च सांत्वय ? तत् श्रुत्वा सरलस्वभावः सुदर्शनः प्राह, अहो ! मम मित्रस्य ज्वरातूरस्य विह्वलत्वं मया ज्ञातं नाभूत्, सुष्ठु कृतं त्वया ॐ यदहं तत्स्वरूपं ज्ञापितः. अथ त्वं याहि, अहमधुनैव तव पश्चात् सर्वकार्यं परिहृत्यापि समागच्छामि इत्युक्त्वा तां विसर्ज्यं स निजमित्रपार्श्व गंतुमुत्सुकीभूय चलितः अथ कपिलापि तं सुदर्शनं दृष्ट्वाऽपरमनंगमप्यंगधारिणं मत्वा भृशं कामातुरा निजप्रयासं च सफलं मन्यमाना 98 द्रुतं द्रुतं निजगृहे समागत्य शय्यायासनानि प्रगुणीचकार. इतः स सुदर्शनः श्रेष्ठ्यपि निजपरममित्रमिलनायोत्सुकीभूतः सन् तदीयगृहमध्ये ६ प्रविष्टः यथा यथा स गृहमध्ये प्रविशति, तथा तथा सा गृहद्वाराणि पिधत्ते स्म ततो गृहांतः समागतं तं सुदर्शनं प्रति कामाग्नितप्ता
सुदर्शन
चरित्रं
॥ ३ ॥