SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सुदर्शन ॥ २ ॥ चरित्रं 8 इति नाम श्रेष्ठिना विहितं. क्रमेण वृद्धिं प्राप्नुवन् स सुदर्शनकुमारो बालक्रीडां कुर्वन् प्रस्खलन् जल्पंश्च निजपितरौ प्रमोदयामास. एवं 88 १६ बाल्यकालमुल्लंधितः स श्रेष्ठिना कलाभ्यासकृते पाठशालायां प्रेषितः तत्राप्यध्यापकं प्रमोदयन् स्वल्पेनैव प्रयासेन स निखिलकलाकलापकलितो 8 जज्ञे. ततोऽसौ निजमातापित्रोराज्ञयोपाश्रये गत्वा विनयेन जैनमुनिगणेभ्यः शास्त्राभ्यासं कर्तुं प्रवृत्तः, क्रमेण च स निखिलशास्त्राब्धिपारंगतो बभूव, यतः - रूपयौवनसंपना । विशालकुलसंभवाः । विद्याहिना न शोभंते । निर्गधा इव किंशुकाः ॥१॥ पंडितेषु गुणाः सर्वे । मूर्खे दोषाश्च केवलाः ॥ तस्मान्मूर्खसहस्रेभ्यः । प्राज्ञ एकः किलोत्तमः ॥२॥ तत क्रमेण संप्राप्तयौवनः स सुदर्शनकुमारो निजरूपलावण्यातिशयेन मदनबाणापहनानां नगरस्त्रीणां मनास्यांदोलयामास. ततोऽर्हहासः श्रेष्ठी तं निजपुत्रं सुदर्शनं यौवनोन्मुखं संभाव्य तद्विवाहकरणोत्सुको जज्ञे. ततस्तेन रूपलावण्यादिवर्यगुणोपेतया मनोरमाख्यया महेभ्यपुत्र्या सह तस्य निजपुत्रस्य महोत्सवपूर्वकं विवाहो विहितः. तया पल्या समं विविधसुखान्यनुभवन् स सुदर्शनोऽपि जैनधर्मद्दढमानसो नित्यं शुद्धं सम्यक्त्वं पालयति, यतः मूलं बोधिट्ठमस्यैतद् । द्वारं पुण्यपुरस्य च ॥ पीठं निर्वाणहय॑स्य । निधानं सर्वसंपदां ॥॥ गुणानामेव ह्याधारो । रत्नानामिव सागरः ॥ पात्रं चारित्रवित्तस्य । सम्यक्त्वं श्लाध्यते न कैः ? ॥२॥ ततः कियत्कालानंतरं सोऽहंदासः श्रेष्ठी तं निजपुत्रं सुदर्शनं सर्वगुणसंपन्नं विज्ञाय निश्चितो निखिलं गृहभारं तस्मै समर्प्य स्वयं सद्गुरुसंनिधौ संयम जग्राह. अथ स सुदर्शनश्रेष्ठ्यपि निजनिर्मलगुणगणैर्लोकान् प्रीणयन् निजपितुरपि सविशेषं राजमान्यो बभूव. यतः - कुंभः परिमितमंतः । पिबति पयः कुंभसंभवोंऽभोधिं ॥ अतिरिच्यते सुजन्मा । कश्चिजनकानिजेन चरितेन ॥१॥ क्रमेण तस्य सुदर्शनश्रेष्ठिन एकेन कपिलाभिधेन द्विजेन सह परमं सौहार्द बभूव. स च द्विजो वेदादिशास्त्रपारंगतो नृपेण भृशं सन्मानितः नगरपुरोधा अभूत. स च पुरोधास्तस्य सुदर्शनश्रेष्ठिनो गुणगणाकृष्ट इव नित्यं तत्पाः एव स्थितो विशेषेण प्रायो निजसमयं ज्ञानगोष्ठ्या निर्गमयति. ३ एवं निजस्वामिनो गृहतो बहिरेव विशेषस्थितिं विज्ञाय तस्य प्रिया कपिलैकदा तं पप्रच्छ, स्वामिन् ! सर्वमपि दिनं कुत्र स्थिता यूयं । २६ निर्गमयथ? तत् श्रुत्वा कपिलेन प्रोक्तं, हे प्रिये ! अहं नित्यं प्रायो मदीयसुहृदुत्तमस्य सुदर्शनश्रेष्ठिनोऽग्रे स्थितो ज्ञानगोष्ठ्या निजसमयं ३६
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy