SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सुदर्शन चरित्रं ॥श्रीजिनाय नमः॥ ॥श्री प्रेम-भुवनभानु-पद्म-सद्गुरुभ्यो नमः॥ ॥ अथ श्रीसुदर्शनश्रेष्ठिचरित्रं प्रारभ्यते॥ (कर्ता - श्रीशुभशीलगणी) पालयन् दर्शनं शुद्धं । शीलं च मुक्तिसौख्यदं ॥ मुक्तिं गच्छति भव्यांगी। सुदर्शन इवाचिरात् ॥१॥ तथाहि - अस्मिन्नेव जंबूद्वीप ३६ दक्षिणदिग्विभूषणे भरतखंडे चंपाभिधा पुरी वर्त्तते. तत्र पुर्याम रिसिंहभूपपुत्रो दधिवाहनाख्यो राजा न्यायपुरस्सरं निजप्रजां पालयामास.१६ तेन नृपेण निजकलाप्रयासेनानेकभूपसभामध्ये राधावेधं विधाय अभयाभिधा राज्ञी परिणीताभूत्. तत्रैव पुर्यामेकोऽहंदासाभिधः श्रेष्ठी परिवसति १६ अस्म, तस्य गृहे संख्यातीतं द्रव्यं वर्तते, तेन लोकास्तं शक्रनिधानपतिं कुबेरमेव कथयंति. तस्य श्रेष्ठिनचाहदास्यभिधा पत्नी वर्तते, सा ३६ १६चातीवरूपलावण्यालंकृता देवांगनेव परिभाति. एवं तौ द्वावपि दंपती परमसुखलीनौ जैनधर्मतत्परौ नित्यं जिनपूजागुरुवंदनसुपात्रदानादिधर्मकार्याणि १६ १६ कुर्वतौ निजसमयं गमयतः स्म. एवं परमसुखान्यनुभवंत्यास्तस्या अर्हदास्याः कियत्समयानंतरं गर्भे शुभस्वप्नसूचितः कोऽपि पुण्यशाली १६ जीवः समुत्पन्नः, तस्य गर्भस्य प्रभावेण तस्याः शुभदोहदाः समुत्पन्नाः, तेन सा सर्वदा सविशेषं श्रीवीतरागपूजनगुरुवंदनसुपात्रदानादि कर्तुं प्रवृत्ता. क्रमेण तया गर्भवत्याऽर्हहास्या शुभसमये एको महातेजस्वी चंद्र इवाहादप्रदः सोम्यमूर्तिसुतः प्रसूतः, तज्जन्मप्रमुदितः श्रेष्ठी ३६ १६ विविधदानैर्याचकसमूहान् प्रीणयामास, पौरबालकांश्च मिष्टान्नदानादिना संतोषयामास, प्रतिजिनमंदिरं जिनप्रतिमानां स्नात्रादिमहोत्सवपूर्वकं १६ पूजां कारयामास, साधर्मिकांश्च वस्त्रपात्रादिप्रभावनाभिराहादयामास, ततः शुभदिवसे सकलकुटुंबसाक्षिकं तस्य तेजस्विनः पुत्रस्य सुदर्शन
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy