________________
सुदर्शन चरित्रं
कमलको मया सा
ईसा कपिला कटाक्षशतानि विक्षिपंती, नानाविधहावभावान् दर्शयंती, परमप्रेमपयःसिक्तेव प्रस्वेदल्लिना प्रकंपितांगी समन्मनाक्षरं जजल्प, ३९ हे स्वामिन् ! भूरिकालादहं त्वत्संगमं वांछंत्यस्मि, संप्रति मदनतापसंतप्तां मां निजभुजोर्मिभिः संवेष्ट्य प्रेमपयः पूरैयूयं सिंचत ? इत्थं ।
कमलकोमला शय्या, त्वदीयसंगमातुरमिदं मे शरीरं, च भोगोपभोगयोग्यं सकलमपि वस्तुजातं संप्रति त्वदायत्तमेव विद्यते, अतस्त्वं स्वेच्छया as 88 मया सह भोगान् भुंव, एवंविधांस्तस्या आलापान् श्रुत्वा प्रत्युत्पन्नमतिः स सुदर्शनो निजशीलरक्षार्थ तस्याश्च कामविकारापनयनाथ जगौ, a भो सुंदरि ! मयि प्रेमरसभरनिर्भरः सर्वोऽपि तेऽभिलाषो मया ज्ञातः. मनसि चापि सुष्टुतया संगृहीतः. परं त्वं मयि रागकरणे नूनं 8
चितासि, यतोऽहं तु नपुंसकोऽस्मि, त्वया चेदं मम नपुंसकत्वं कस्याप्यग्रे न वक्तव्यं. एवंविधानि सुदर्शनवचनानि निशम्य सा वीलक्षीभूता, प्रशांतमदनविकारा पश्चात्तापं कुर्वती तं प्राह. भो सुदर्शन ! अथ त्वयापि मदीयेयं कुचेष्टा कस्याप्यग्रे न वक्तव्या. एवं निजफालच्युता न्याधीच गतानंगविकारा लज्जया नम्रीभूतानना सा तं सुदर्शनं द्रुतं ततो विससर्ज. सुदर्शनोऽपि कथंचिद् व्याधपाशनिर्मुक्तहरिणवदविलंबेन । गतिवेगमादृत्य निजगृहे समाजगाम. ततस्तेनाभिग्रहो जगृहे, अथ मयैवमपरीक्ष्य यथातथा कस्यापि गृहे न गंतव्यं. एवं सुदृढमनःपरिणामोऽसौ सुदर्शनश्रेष्ठी निजशीलं रक्षयामास. अथान्यदा वसंतर्तुसमयः समाययौ. आम्रवृक्षोपरि नवपल्लवोपेतं मंजरीव्रज निरीक्ष्योन्मत्तीभूताः कोकिला निजपंचमस्वरशस्वैर्विरहिजनानां चेतांसि विदारयामासुः प्रफुल्लनवमालतीपुष्पपरिमललोलुपा मधुकरा निजगुंजारवैर्जनमनांसि मोदयामासुः, अथोयानपालनिवेदितां तामुपवनशोभा परिभोक्तुं पृथ्वीपतिरपि पौरपरिवारपरिवृतो वनमध्ये ययौ. अभया महाराज्यपि तया पुरोहितपत्न्या कपिलया सह यानारूढा नृपादिपरिवारेण सह तत्रोद्याने गंतुं प्रवृत्ता. तदा तस्य सुदर्शनश्रेष्ठिनः प्रिया मनोरमापि निजषड्पुत्रपरिवारयुता
रथारूढा तस्मिन् वसंतोत्सवे वनं प्रति गमनं चकार. सुदर्शनोऽपि निजपरिजनमित्रादिपरिवारयुतोऽश्वारूढस्तत्र चलति स्म. ततो मार्गे ३ पुत्रगणोपेतां रथारूढां सुदर्शनपत्नीं तां मनोरमां निरीक्ष्य कपिलाऽभयां राज्ञी प्रति प्राह, हे सखि ! कस्येयं पत्नी ? कस्य चायं पुत्रपरिवारः १६ ? तत् श्रुत्वाऽभयया प्रोक्तं, अरे! मुग्धे ! किं त्वमेनां ललनां नोपलक्षसि ? इयं हि तव भर्तुः परमसुहृदः सुदर्शनश्रेष्ठिनो मनोरमाभिधा ३६