________________
समागमिष्यति. पुनरेकदा सा राक्षसी मया पृष्टा, हे मातरहमत्रारण्ये एकाकिनी किं करोमि ? अतस्त्वं मां मारय, तयोक्तं - यदि योग्यं वरमहंY लस्ये, तदा तस्मै त्वामहं दास्यामि । X अथ सांप्रतं तस्यागमनवेलास्ति, सा च कदाचिन्मां तुभ्यं दत्ते, तदा त्वयाऽस्या राक्षस्याः पार्थादाकाशगामिनी विद्या सप्रभावा खट्वा
PA महार्यरत्नपेटिका सप्रभावे रक्तश्वेतकणवीरकंचे दिव्यरत्नग्रंथ्यौ च एतानि वस्तूनि मार्गणीयानि करमोचनावसरे, इति संकेतं गृहीत्वा मंत्री कामकुंभ प्रच्छन्नः स्थितः, इतश्च मनुष्यं भक्षयामीति बदन्ती राक्षसी समागता. तया च श्वेतांजनेन सोष्ट्रिका कन्या चके ततस्तया राक्षस्या सह वार्ता
198॥ कथा
कर्वत्या स्वयोग्यो बरो याचितः, तदा राक्षस्योक्तं-कमपि तव योग्यं वरं न पश्यामि कन्ययोक्तमहमेव ते योग्यं वरं दर्शयामि. राक्षस्योक्तं-तयधुनैव 198॥ त्वां तस्मै ददामि. ततः पूर्वसंकेततस्तत्र मंत्री प्रकटीबभूव, राक्षस्यापि स तया सह परिणायितः, करमोचनावसरे च खट्वादिपंचकं तेन
याचितम्, तयापि च तत्सर्व तस्मै समर्पितम्, ततो राक्षसी क्रीडाद्यर्थमन्यत्र जगाम, तदा तया कन्यया मंत्र्यूचे, हे स्वामिन् ! सांप्रतमावां पिन स्वस्थानं गच्छावः, मन्त्रिणोक्तं कथं गम्यते ? स्वपुरादिमार्गाऽपरिज्ञानात, ततः कन्ययोक्तं सांप्रतमावाभ्यां रत्नग्रंथिद्वयं गृहीत्वा खट्वायां पर पर चोपविश्य श्वेतकंचया सा हन्या, ततः सा चिंतिते पुरे नेष्यति, यदि च कदाचिद्राक्षसी पृष्टे समागच्छेत्तदा त्वया सा रक्तकणवीरकंबया तव्या,
ततः सा निःप्रभावा पश्चाद्यास्यति. का अथैवं तयोश्चलनानंतरं सा राक्षसी तत्र समागता. स्वस्थानं च शून्यं दृष्ट्वा हा मुषितास्मीति चिंतयंती सा तयोः पृष्टे धाविता, मिलिता च. मन्त्रिणा कणवीरकंचया हता सती पश्चाज्जगाम. ततो यत्र प्राक्तने द्वे भार्ये यत्र च गंभीरपुरं पत्तनम् तस्मिन्नेव पुरे उद्यानवनमध्ये खट्वाप्रभावान्मंत्री समागात्, कन्यादिकं बहिर्मुक्त्वा मन्त्री स्थानविलोकनाय नगरांतर्गतः, इतस्तत्रैका वेश्या समागता, तया तत्कन्यारूपं दृष्ट्वा ।
चिंतितं, यद्येषाऽस्मद्गृहे समागच्छेत्तदांगणे कल्पवल्ल्येव रोपिता भवेत्, अतः केनाप्युपायेनैषा ग्राह्या, इति विमृश्य तत्पार्थे समागत्य सार PR वदति, वत्से ! त्वं कस्य पत्नी ? कुतश्चागता ? क च तव भर्तेति पृष्टा सती सा तदने यथास्थितं निजस्वरूपं जगाद, तदा कपटपाटवोपेतया -