________________
पार गतः, तत्र खट्वोपा नयने अंजनं चकार. तटानगर : कुतःकारणा
देइ ॥४६॥ अपुच्चो कप्पतरू एसो चिंतामणि अपुल्वो अ॥ जो झायइ सया कालं । सो पावइ सिवसुहं विउलं ॥४७॥ नवकारिकअक्खरो । पाचं फेडेइ सत्तअयराणं ॥ पन्नासं च पएणं । समग्गेणं तु मुक्खफलं ॥४९॥ जो गुणइ लक्खमेगं पूएइ विहिए य जिणनमुकारं ॥ तित्थयरनामगोयं । सो बंधइ नत्थि संदेहो ॥५०॥ अटेब य अट्ठसया । अट्ठसहस्सं च अट्ठकोडीओ ॥ जो गुणइ भत्तिजुतो । सो पावइ सासयंस
ठाणं ॥५१॥ अथ स समुद्रतटादग्रे भ्रमन् सन्नेकं शून्यं नगरं ददर्श, शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्न-1 कामकुंभ चिद्रुममौक्तिकस्वर्णादिविविधवस्तुक्रयाणकापूर्णापणश्रेणी: सतोरणा मंदिरधोरणीश्च ददर्श, बाढं चमत्कृतश्र. साहसेनैकाक्येव नगरमध्ये ब्रजन् स ॥१३॥ कथा राजमंदिरे सप्तमभूमिकोपरि गतः, तत्र खट्वोपर्येकामुष्ट्रिकां स ददर्श. तथैव तत्र स कृष्णश्वेतांजनभृतकूपिकाद्वयं शलाकाद्वयं च ददर्श, तद् दृष्ट्वा । ॥१३॥ विस्मितः सन् स कौतुकेन श्वेतांजनेनोष्ट्रिकाया नयने अंजनं चकार. तत्प्रभावाच सा दिव्यरूपा जज्ञे, तत्क्षणमेव च तयाऽऽसनं मुक्तं, ततो
मंत्रिणा तस्यै पृष्टं, का त्वं ? कस्य च सुता ? कथमेवंविधा ? किमिदं नगरं ? कुतःकारणाच जनरहितं शून्यं ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वती प्राह-भो नरपुंगव ! त्वमितः शीघ्रं याहि, अत्रैका राक्षसी विद्यते, सा त्वां भक्षयिष्यति. तदा मंत्रिणा पुनरपि पृष्टं, हे सुलोचने ! का सा राक्षसी ? इत्यादि सर्व वृत्तांतं त्वं स्पष्टतरं कथय, साह हे सत्पुरुष ! अस्य नगरस्य स्वामी भीमसेनो राजा, अहं च तस्य पुत्री, स मे पिता तु तापसभक्त आसीत्. एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतः, स च मत्पित्रा भोजनाय निमंत्रितः, अहं च राज्ञा तस्य परिवेषणायादिष्टा, ततोऽसौ तापसो मद्रूपं दृष्ट्वा चुक्षोभ. रात्रौ च मम समीपे समागच्छन् स प्राहरिकैधृत्वा बद्धः, प्रातच नृपस्य
समर्पितः, राज्ञा च स शूलायामारोपितः, स आर्त्तध्यानेन मृत्वा राक्षसी बभूव, तया च नगरमुद्ध्वस्तं विधाय पूर्ववैरेण राजा ब्यापादितः, तद्र पर दृष्ट्वा नगरलोकाः सर्वेऽपि भयभ्रांतास्ततः पलायनं चक्रुः, नगरं च शून्यं जातं. अहं तया मोहभावतो रक्षिता. पूर्वभवस्नेहेन महामोहेन च प्रश्वेतांजनेनोष्ट्रीरूपेण स्थापिता. प्रतिदिनं च सा राक्षसी मम सारकरणार्थमत्र समागच्छति. अतस्त्वं प्रच्छन्नो भव यतः सा राक्षसी संप्रत्येव
प्राह-भो नरपुंगव
स्पष्टतरं कथय, साह
नगरे समागत