________________
॥१२॥
गुह्यमाख्याति पृच्छति ॥ भुंक्ते भोजयते चैवं । षड्विधं प्रीतिलक्षणम् ॥४०॥ अथैकदा सागरदत्तेन मन्त्रिणं प्रति प्रोक्तं-पृथक्पृथझवहणस्थयोरावयोः का प्रीतिः ? अतस्त्वं मम प्रवहणे समागच्छ, ततः सरलस्वभावी मन्त्री तस्य यानपात्रे गतः, सागरदत्तेनोक्तं-यद्यावां वाहनप्रांते समुपविश्योल्लोलजलधिकल्लोललीलां पश्यावस्तदा वरं; मन्त्रिणापि तदंगीकृतं. अथावसरं प्राप्य लोभाभिभूतेन तेन सागरदत्तेन मन्त्री समुद्रान्तः पातितः,
मन्त्रिणा तु पततैव नमस्कारस्मरणानुभावेन फलकं लब्धं. ततोऽनन्तरं सर्वाण्यपि प्रवहणानि त्वग्रतो गतानि. अथ स दुष्टो सागरदत्तः कूटशोकं कामकुंभ विधाय विलपंत्या राजपुत्र्याः पार्श्वे समागत्य मायया विलपन् सन्नुवाच हे भद्रे ! यदि त्वं मदुक्तं करिष्यसि तदाहं त्वां मम सर्वकुटुंबस्वामिनीं
कथा करिष्यामि. तस्यैवंविधवचनतस्तया चतुरया ज्ञातं नूनमनेनैव दुरात्मना लोभाभिभूततया मम स्वामी समुद्रमध्ये पातितोऽस्ति. यत:-दिवा पश्यति र ॥१२॥
नोलूकः। काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो। दिवानक्तं न पश्यति ॥४॥ न पश्यति हि जात्यंधः । कामांधो नैव पश्यति। न पश्यति मदोन्मत्तो । अर्थी दोषं न पश्यति ॥४२॥ किमु कुवलयनेत्राः सन्ति नो नाकिनार्य-स्त्रिदशपतिरहल्यां तापसी यत्सिषेवे ॥ मनसि तृणकुटीरे दीप्यमाने स्मराग्नी ॥ उचितमनुचितं वा वेत्ति कः पंडितोऽपि ॥४३॥ विकलयति कलाकुशलं तत्त्वविदं पंडितं विडंबयति ॥ अधरयति
धीरपुरुषं । क्षणेन मकरध्वजो देवः ॥४॥ CR अथ स्वशीलरक्षार्थ तयोक्तं- संप्रति मम दुःखं वर्त्तते, अतो नगरगमनानंतरं चिंतयिष्यते इति तद्वचसा सागरदत्तः स्वस्थो जातः, इतस्तस्य
प्रवहणमपि सुवायुना पूरितं गंभीरपुरनगरे प्राप्तम्, तावत्सौभाग्यसुंदरी स्वशीलरक्षार्थ प्रवहणादुत्तीर्यनिकटस्थश्रीमदृषभदेवप्रासादमध्ये गत्वा कपाटौ दत्त्वा च स्थिता. उक्तं च तया यदि मम शीलप्रभावः स्यात्तर्हि ममोद्घाटनं बिना कपाटौ मोद्घटतां, अथ स सागरदत्तः स्वगृहे गतः, धर्मबुद्धिमंत्री तु नमस्कारप्रभावात्फलकं लब्ध्वा क्रमेण समुद्रतटं प्राप्तः, यतः - जिणसासणस्स सारो । चउदसपुवाण जो समुद्धारो ॥ जस्स मणे नमुक्कारो । संसारो तस्स किं कुणइ ॥४५॥ एसो मंगलनिलओ. भवविलओ सन्चसंतिजणओ य ॥ नवकारपरममंतो। चिंतिअमित्तो सुहं
政班及致死