________________
एक क्षोभनार्थं बहव उपायाः कृताः, परं स्वदारसंतोषव्रतधारिणो मन्त्रिणो हृदये तया मनागपि रागभावो नोत्पादितः - संसारे हयविहिणा, एक महिलारूवेण मंडियं पासं । बज्झति जत्थ मुग्धा, जाणमाणावि बज्झति ||२८|| तस्माद्धर्मार्थिभिस्त्याज्यं, परदारोपसेवनं । नयंति परदारास्तु, क नरकानेकविंशति ।।२९॥ भख्कणे देवदव्वस्स, परत्थीगमणेण य । सत्तमं नरयं यांति, सत्तवारा उ गोयमा ||३०||
कथा 11 90 11
एवं मंत्रिणं स्वहावभावविलासादिभिरप्यक्षुब्धं विज्ञाय निस्फलीभूतनिजमनोरथा सा वेश्या पश्चान्निजगृहे समागता. एवं परिवर्जितकुसंगस्य कामकुंभ के तस्य मंत्रिणस्तस्मिन् सकलेऽपि नगरे प्रसिद्धिर्जाता, यतः सीलं उत्तमवित्तं । सीलं जीवाण मंगलं परमं । सीलं दुहग्गहरं । सीलं सुक्खाण क ॥ 90 ॥ क कुलभवणं ।।३१।। वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात् । मेरुः स्वल्पशिलायते मृगपति: सयः कुरंगायते ।। व्यालो माल्यगणायते विषरसः पीयूषवर्षायते । यस्यांगेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ३२॥ एकदा राज्ञा तन्नगरे तटाकं खानयितुं प्रारब्धं ततः कियद्दिवसैर्लिखितताम्रपत्राणि निःसृतानि जनैश्च राज्ञे समर्पितानि, राज्ञा च तत्र लिखितलेखपरिवाचनाय तानि पंडितेभ्यः समर्पितानि; किंतु तत्र लिप्यंतरसद्भावात्कोऽपि तानि वाचयितुं न शक्नोति तदा कौतुकप्रियेण राज्ञा पटहो वादितो. यथा यः कोऽप्यमून्यक्षराणि वाचयिष्यति तस्य राजा स्वीयकन्यामर्द्ध राज्यं च दास्यति, इति वाद्यमानः पटहः क्रमेण मंत्रिगृहसमीपे समागतः, तदा मंत्रिणा स पटहः स्पृष्टः, ततो मंत्रिणा नृपसभायां गत्वा तानि ताम्रपत्राणि वाचितानि यथा यत्रैतानि पत्राणि निःसृतानि ततः पूर्वदिशि दशहस्तानि गत्वा कटिप्रमाणं भूमौ खनिते सति तत्रैका महती शिला समेष्यति तस्या अधश्च दशलक्षा: सुवर्णानां संति, तत् श्रुत्वा सर्वेषां चमत्कारोऽभूत् कौतुकालोकनोत्कंठितमानसेन राज्ञोक्तं तर्हि संप्रत्येव तत्र गत्वा विलोक्यते ततः सर्वजनपरिवृतो राजा तत्र गतः, ताम्रपत्रोक्तविधिश्व तेन कृतः, दशलक्षाः सुवर्णानां निःसृताः, सर्वेषां च महान् हर्षो जातः, राज्ञापि मंत्रिणः प्रशंसा कृता, यदहो कीदृशं ज्ञानस्य माहात्म्यमस्तीति,
यतः